________________
११२
श्रीतिलकाचार्यविरचितटीकायुतम् पर्युपास्तिविधानेन, न प्रत्यर्थी ममैषेकः । किं त्वसौ शरणार्थी वा, मत्कार्यार्थमथागमत् ।।८८८।। उदतिष्ठत्ततः शौरि-रसम्भ्रान्तः प्रेसत्तिमान् । चन्द्रातपोऽप्यनंसीत् तं, चन्द्रातप इव स्फुरन् ।।८८९।। शौरिस्तं स्माह कनकवत्याख्याता सँ किं भवान् ? । एवमित्युदिते तेन, तदैवाभीष्टबन्धुवत् ।।८९०।। मित्रवत् तं समालिङ्गय, पप्रच्छागमकारणम् ।
ततश्चन्द्रातपः स्माह, चन्द्रातपकिरा गिरा ।।८९१।। स्वामिस्ते कनकवतीं, तदाख्याय तथाविधाम् । त्वामाख्यामि स्म तत्रैत्य, तस्यै रूपं गुणांश्च वः ।।८९२।। पटे चालिख्य रूपं व-स्तत्र चित्रकवन्मया । तस्याः पटोऽर्पितः सा तु, साक्षात्तं त्वामिवाबुधत् ।।८९३ ।। पटस्थमपि पश्यन्ती, भवन्तं मैंदविह्वला । त्वद्दत्तमिव सा हर्षाद्, दधे रोमाञ्चकञ्चकम् ।।८९४ ।। पटस्थस्यापि ते सङ्गात्, साङ्गे स्वेदकणान् दधौ । चन्द्रांशुस्पर्शतश्चन्द्रा-श्मेव पीयूषविप्रेषः ।।८९५ ।। नेदृशि सन्ति पुण्यानि, यैरयं प्राप्यते पतिः । इत्यश्रूण्यमुच, वारा-यन्त्रपाश्चालिकेव सा ।।८९६।। सगद्गदं ययाचे मां, बद्धाञ्जलिपुटा मुहुः । कल्याणिन् ! मम जीवातुं, तं स्वयंवरमानयेः ।।८९७ ।। पटापर्णात् तदाख्यानात्, त्वमेवाप्तोऽसि वच्मि तत् ।
मत्प्रार्थनालतामेतां, विदधीथाः फैलेग्रहिम् ।।८९८ ।। १. शत्रुः ।। २. एषः ।। ३. प्रसन्नता १० टि० ।। ४. ज्योत्स्ना १० टि० ।। * आख्याधः कनकवीं, स त्वं चन्द्रातपोऽसि किम् २, यः कनकवतीमाख्यः, स त्वं चन्द्रातपोऽसि किम् ६-१० ।। ५. येन इति शेषः ।। . सि ३ ।। ६. वृष्णिसूरूपलक्ष्य तं २.६-१० ।। ७. हे स्वामिन् ! तुभ्यं कनकवत्याः स्वरूपं, कनकवत्यै च तव स्वरूपमाख्यातवान् ।। 0 राग० ५ ।। * स्वा० २.८. ।। ८. चन्द्रकान्तमणिः ।। ९. ०बिन्दून् ।। १ ०० १.७.९.१० ।। १०. जलयन्त्र० ।। ११. जीवनौषधम् १० टि० ।। + ०ण तदा २ ।। १२. सफलम् २ टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org