________________
श्रीदशवकालिकसूत्रम्
१११ सापि चित्रपटे रूपं, तस्य साक्षेपमैक्षत । ख्यातानुरूपमस्त्येत-दसरूपं जगत्स्वपि ।।८७६।। प्रीता कनकवत्यूचे, मरालमनरालगीः । अहो! स्वात्मप्रकाशेन, विकाशय ममाक्षिणी ।।८७७ ।। स तदैवाम्बरचर-स्तत्रैवाभवदम्बरे । दिव्याम्बरधरो दिव्या-ङ्गरागो दिव्यभूषणः ।।८७८ ।। ऊचेऽहं हंसरूपेण, तमाख्यातुं तवागमम् । नाम्ना चन्द्रातपो भावि-त्वत्पतेः पदसेवकः ।।८७९।। कथयामि तथान्यत्ते, ज्ञात्वा विद्याप्रभावतः । स्वयंवरदिने त्वां सो-ऽन्यदौत्येनागमिष्यति ।।८८०।। साथोचे किं बहूक्तेन ?, यतेथास्त्वं तथा यथा । स मे स्वयंवरेऽभ्येती-त्युदित्वा विससर्ज तम् ।।८८१।। साथ चित्रगतं कान्तं, पश्यन्ती विरराम न । रूपामृतं पिबन्तीव, दृक्पुटाभ्यां महातृषा ।।८८२।। ___चन्द्रातपस्तदैवाथ, संयोजनचिकीस्तयोः । विद्याधरपुरेऽयासीद्, वैताढ्याचलमण्डने ।।८८३।। विद्ययाऽणिमसिद्धः स, मनोगतिरिवास्खलन् । निशायां प्राविशद् वास-गेहमानकदुन्दुभेः ।।८८४।।
अन्दोलतल्पानल्पोङ्के, वारलारोमतूलिके । जाँदराच्छादिते सुप्तं, वसुदेवं ददर्श सः ।।८८५।। शयालोरङ्गमर्दीव, तस्याही समवाहयत् । । शौरिः क्षणादथाबुद्ध, स्वल्पनिद्रा हि साधवः ।।८८६।। अर्धरात्रेऽप्यकस्मात्तं, विलोक्यापि न वृष्णिसूः ।
चकितः कुपितो वापि, चिन्तयामास किं? पुनः ।।८८७।। १. मृदुभाषिणी ।। २. तव समीपे ।। ३. वसुदेवस्य १० टि० ।। ४. हिण्डोलक २ टि० ।। ५. मध्ये १० टि० ।। ६. हांसलू (हंसली) २ टि०, जीवविशेष १० टि० ।। ७. चादर इति भाषा० ।। ८. अचम्पयत् २ टि० ।। ९. वसुदेवः ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org