________________
श्रीतिलकाचार्यविरचितटीकायुतम् अथ हंसोऽभ्यधाद् भद्रे!, विद्यते कोशला पुरी । अस्यां विदर्भशालीनि, गृहाणि वचनानि च ।।८६५ ।। .. कोशलो नाम तत्रास्ति, विद्याधरनरेश्वरः । यद्यशोवादघण्टान्त-त्लालीलसुराचलः ।।८६६।। पुत्री सुकोशला तस्य, कलासुकृतकौशला । लक्ष्मीर्लक्ष्मी न पुष्णाति, यत्पुरो न रति रतिः ।।८६७।। . आस्ते सुकोशलायाश्च, वल्लभो नवयौवनः । यं दृष्ट्वा दीयते रेखा, रूपवत्स्वपरस्य न ।।८६८।। इन्दुयॊमनि बम्भ्रमीति पतितं, चाम्भोजमम्भोन्तरे, हेमाप्यग्निमुखे पपात तरुषू-द्वद्धं तथा दोलया । खेदात् स्वाङ्गमिवात्यजन्मनसिजो, बिम्बं वृत्तौ पुञ्जति, प्रापद्यत्तनुचङ्गिमोपहसितं, किं किं न यद्दुःस्थताम् ।।८६९।। शार्दूलविक्रीडितम् संभाग्यं यच्च सौभाग्य-, मद्भुतं विद्यतेऽस्य तत् । , न दैत्यानां न देवानां, मानवानां तु का कथा ?।।८७० ।। रूपसीमा नरेष्वस्य, यथा स्त्रीषु तथा तव । विधिवधुवयोः कर्तुं, तद्योगमनुरूपयोः ।।८७१।। तस्याग्रे वर्णयित्वा त्वां, वर्णयामि स्म तं तव । तन्मुश्च मां मयि धृते, मापवादोऽस्तु ते शुभे ।।८७२।। युग्मम् दध्यौ कनकवत्येवं, हंसमात्रमयं न हि ।
देवो विद्याधरो वापि, तत्पतिर्भाव्यतो मम ।।८७३ ।। हंसः करात्तया मुक्तः, स्थित्वा वियति तत्क्षणात् । तदुत्सङ्गे चित्रपट, विमुच्येदमभाषत ।।८७४ ।। लिखितोऽस्ति मया भद्रे!, स युवात्र यथेक्षितः ।
ततस्तं त्वमिहायात-मालेख्याल्लक्षयेरितः ।।८७५ ।। * विवर्त १० ।। १. गृहपक्षे-विशिष्टतृणव्रीहिमन्ति, वचनपक्षे-विशिष्ट सन्दर्भवन्ति ।। २. शोभाम् ।। ३. आनन्दम् ।। मथा० ५ ।। ॐ यद्० ६-१० ।। * विद्यतेऽस्य तदङ्गिनाम् २.६-१० ।। हे देवा० २६-१० ।। + दैत्या० २.६-१० ।। ४. कनकवतीम् ।। ५. खेचरेन्द्रम् ।। . इतः श्लोकत्रयं ५ प्रतौ नास्ति ।। ६. तेषां पतिः १० टि० ।। ६०ते ६-१० ।। * ०त्वोपरि मरुत्पथे २.६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org