________________
श्रीदशवैकालिकसूत्रम्
१०७ ततः श्रीदो नलात्माहं, वैदर्थ्यात्मा तु मत्प्रिया । सा च्युत्वा तेऽभवत्पुत्री, षट्भवस्नेहतस्ततः ।।८३० ।। मयात्रागत्य हर्षेण, स्वर्णवृष्टिरियं कृता । इत्याख्याय हरिश्चन्द्र-राज्ञः श्रीदस्तिरोदधे ।।८३१।। एषा कनकवृष्टिर्मे, पुत्रीजन्मोत्सवाम्बुदात् । तस्याः कनकवत्याख्यां, पितरौ चक्रतुस्ततः ।।८३२।।
अथ प्रवर्द्धमानासौ, राजलोकैः कुतूहलात् । भाष्यते मन्मनालापैः, सभायामपि भूभुजः ।।८३३।। निवेश्यतेऽङ्कपर्यङ्क-मास्यते करपङ्कजे । उल्लापनैर्नवनवै-र्गीयते कलगीतिभिः ।।८३४।। नर्त्यते तालिकाताले-मध्यमाङ्गुष्ठवादनैः । दोङ्कारोञ्चारपाटेन, नृत्य नृत्येतिवादिभिः ।।८३५ ।। इत्थं सौभागिनेयी सा, स्वयं सौभाग्यसेवेधिः । नानाविधाभिः क्रीडाभिः, क्रीड्यते स्म स्मितानना ।।८३६ ।। कलाग्रहणकाले च, बालां पार्थिवपुङ्गवः । कलाचार्यं समाकार्य, तां कलानिधिरार्पयत् ।।८३७ ।। अष्टादशापि हि लिपी- गरीमिव सा लिपिम् । वाचयत्यस्खलन्ती स्म, लिखति स्म च लीलया ।।८३८ ।। शब्दविद्यां तथाध्यैष्ट, सरहस्यां यथा हि सा । यामार्द्धनापि तां कर्तुं, नवीनां शक्तिमत्यभूत् ।।८३९।। . छंदोऽलङ्कारशास्राणि, क्षुन्दाना रसभाववित् । साभूदन्तर्मुखप्रज्ञा, काव्यकर्मणि कर्मठा ।।८४०।। . अस्खलद्वाग्नदीपुरो-न्मूलिताऽहंयुपादपा ।
कर्कशा तर्कसम्पर्के-ऽप्रतिमल्लेव साभवत् ।।८४१।। . •स चा० ४ ।। . ०कल्याणनीरदात् ६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। १. विशालतया ।। 0 ०पादे० २,०पाठे० १० ।। २. सौभाग्यवत्याः महाराज्याः पुत्री ।। ३. निधिः २ टि० ।।* ०ण्यभ्यस्यनी० ५ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org