SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १०६ . श्रीतिलकाचार्यविरचितटीकायुतम् । यत्तुरङ्गाः पतङ्गाश्वान्, औषः किल चरानिव । कियत्यद्यापि नो भर्तुः, साध्या क्ष्मास्तीति वेदितुम् ।।८१७ ।। प्रधानभूताः सैन्यस्य, राजन्ते यस्य कुञ्जराः । चलन्त इव साम्राज्य-कमलाकेलिपर्वताः ।।८१८ ।। तस्य लक्ष्मीवती भार्या, भाति लक्ष्मीनवेव या । नदीनपुत्री नालीक-वासा न जेडसङ्गिनी ।।८१९ ।। मुदे भूपस्य सैवाभू-दवरोधे महत्यपि । रोहिणीव मृगाङ्कस्य, गङ्गेव च सरित्पतेः ।।८२०।। विषयाणां द्विधाप्युच्चैः, सारं वसुमतीपतेः । निःप्रत्यूहं तया सार्दू, भुञ्जानस्य निरन्तरम् ।।८२१ । । कालक्रमेण गर्भोऽभूत्, तस्याः पूर्णेष्वहःसु च । अजायत जनानन्द-कन्दकादम्बिनी सुता ।।८२२ ।। युग्मम् अक्षुणैर्लक्षणैः स्त्रैणै-र्लक्षितायास्तनूरुहः । राजा जन्मोत्सवं तस्याः, पुत्रस्येव व्यधापयन् ।।८२३।। ज्ञात्वावधेस्तदा श्रीद-स्तस्याः प्राग्भववल्लभः । सृष्टवान् कनकवृष्टिं, तत्र षड्भवमोहतः ।।८२४ ।। हरिश्चन्द्रनरेन्द्रस्त-मप्राक्षीद्वीक्ष्य विस्मितः । कस्त्वमतादृशोदाम-दिव्यश्रीभासुरः सुरः ? ।।८२५ ।। पूर्वजोऽसि किमस्माकं ?, किं वा नः कुलदेवता ? । स्वर्णवृष्टिः कृतैवं यत्, पुत्रीजन्मोत्सवेऽद्य नः ।।८२६ ।। इत्युक्तो धनदः स्माह, पुराभून्मम्मणो नृपः । प्रिया वीरमती तस्य, मुनेरेकस्य पार्श्वतः ।।८२७ ।। धर्मं गृहीत्वा स्वोके, तौ जातौ देवदम्पती । ततोऽत्र धूसरीधन्यौ, धर्मं निर्माय तावपि ।।८२८ ।। युग्मम् . अभूतां क्षीरडिण्डीरा-भिधौ जायापती सुरौ । दमयन्तीनलौ तस्मा-ज्जातावत्यन्तधार्मिकौ ।।८२९।। . १. सूर्याश्वान् १० टि० ।। * ०पु १ ।। २. नदीनां इनः ।। ३. समूह १० टि० ।। ४. कमलवासिनी ।। ५. जल ।। ६. इन्द्रियविषयाणां देशानां च ।। - अक्षी० ४. ।। ७. निर्दोषैः ।। - ०मीदृशदेवद्धिदिव्यरूपश्च देवता २.६-१० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy