________________
श्रीदशवकालिकसूत्रम् क्रन्दन्तो यदवः प्रात-स्तस्य प्रेतक्रियां व्यधुः । वार्तामेतां समाकर्ण्य, वसुदेवोऽथ निर्वृतः ।।८०५।। युग्मम् तदा यदूनां सर्वेषां, मग्नानां शोकसागरे । निमित्ती क्रोष्टुकिर्ज्ञात्वा, चख्यौ भ्राता न वो मृतः ।।८०६ ।। किन्तु मायामिमां कृत्वा, निर्ययौ देशचर्यया । सर्वथा तन्न शेच्योऽसौ, प्राप्तैश्वर्यो मिलिष्यति ।।८०७।। गच्छन् विजयखेटादि-पुरेष्वथ यदूद्वहः । भूचरीः खेचरीश्चाप्य-नेकाः कन्या उपायत ।।८०८।।
अथात्र भरतक्षेत्रे, धात्रीमण्डलमण्डनम् । पेढालपुरमित्यस्ति, स्वस्तिविस्तारसुन्दरम् ।।८०९।। उद्योते सत्यलङ्कार-रत्नैः सूर्येन्दुसप्रभैः । तमिस्रास्वपि नो यत्र, प्रदीपः क्रियते जनैः ।।८१०।। मणिकुट्टिमसङ्क्रान्तं, यत्रा6 वीक्ष्य बालिकाः । पतितं कुण्डलं किं न: ?, कर्णी पश्यन्त्यतो निजौ ।।८११ ।। यत्रत्यचैत्यवादित्र-स्वनैर्जर्जरितं नभः । धात्रा नक्षत्रदम्भेन, कीलनात् किल सज्जितम् ।।८१२।। यच्चैत्यधूपधूम्यायां, मृगाङ्कोऽयमधोमुखः । धूमपानं करोतीव, राबादीनां जयेप्सया ।।८१३।। तत्र राजा हरिश्चन्द्रः, प्रख्यातश्चन्द्रवनवः । च्छाद्यते तमसा नासौ, वृत्रभङ्गश्च नास्य यत् ।।८१४ ।। समन्ताद् यद्यशोवीरे-णाक्रान्तासौ त्रिलोक्यपि । तदूर्ध्वं क्वैष यातेति, संशयः सुधियामभूत् ।।८१५ ।। रङ्गद् गुणतरङ्गौघे, यद्यशः क्षीरसागरे ।
मग्नाः शत्रुयशोनद्यः, सद्यो निर्नामतामगुः ।।८१६ ।। तः १० ।। ॐ नीम् १० ।। ० न ५ ।। * ०र्जि० १० ।। १. राहुणा ।। २. मेघः ।। १ ०ती० ५ ।।+ न्तुति० ६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। . ०ङ्गोधर्य० ५ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org