________________
१०४.
श्रीतिलकाचार्यविरचितटीकायुतम्
तथेति प्रतिपेदेऽसौ गुर्वादेशं निदेशकृत् । विमृशन्ति विनीता हि, गुरूक्तं न कदाचन ।। ७९३ ।। अन्यदा तत्र सैरन्ध्रीं, यक्षकर्दमभाजनम् । गृहीत्वा वीक्ष्य निर्यान्तीं, पुरतः केम्बिमक्षिपत् ।। ७९४ ।। स्खलिता सा ततः सेर्ण्यं, वसुदेवमदोऽवदत् । एवं नियन्त्रितोऽपि त्वं, न मुञ्चस्यौलिमात्मनः ।।७९५ ।। सोऽवदत् किमिदं वक्षि, साथ सुव्यक्तमब्रवीत् । त्वद्राजपाटिकारावां, पौराश्चक्रुर्नुपाग्रतः । । ७९६ ।। तेनैवं तं धृतोऽसीव, गन्तुं न लभसे बहिः । इत्युक्त्वा सा स्वकार्येऽगाद्, वसुदेवोऽप्यचिन्तयत् ।। ७९७ ।। निर्दोषस्यापि दोषो मे, पौरोक्तः क्ष्माभृता श्रुतः । ततः कापुरुषस्येव, युक्ता नात्र स्थितिर्मम । । ७९८ ।। अथ वेषं परावृत्य, गुटिकायोगतो निशि । केशरीव दरीमध्या-न्नगरान्निरगाद् बहिः ।।७९९ ।। प्रतोलीषु प्रदत्तासु, कृत्वैकस्याः पुरश्चिताम् । अधाक्षीत् मृतकं किञ्चित्, तत्र निक्षिप्य वृष्णिसूः ॥ ८०० ।। न्यधावितान्तिकं स्तम्भं, कीर्तिस्तम्भमिवात्मनः ।
ज्ञोऽग्रे मदुपालम्भोऽभूत् तन्मे जीवितेन किम् ? ।।८०१।। असत्यो वाथ सत्यो वा, यो दोषश्चिन्तितो मयि । पौराश्च गुरवश्चापि, सर्वे क्षाम्यन्तु तेऽधुना ।।८०२।। स्वप्रशस्तिं लिखित्वैतां, पत्रिकायां ध्वजामिव । स्तम्भा तां निवेश्याथ, वसुदेवोऽनलेऽविशत् ।।८०३ ।। एवं कृत्वा पुरोपान्ते, क्वाप्येकान्ते ततः स्थितः । वसुदेवोऽविशद् वह्नौ, ज्ञात्वेदं पत्रिकाक्षरैः ।।८०४ ।। ०श्य० २.१० ।। १. शिल्पकारिणी स्त्रीभेदे १० टि० ।। अविच्छिन्नधाराम् १० टि० ।। ४. प्रतोल्याः १० टि० ।।
२.६-१० ।।
Jain Education International
०धी १-५ ।। २. कडछी इति भाषा० ।। ३. उपालम्भो मदीयोऽभूद्राज्ञ (०जं० ६.१० ) स्तज्जी ०
For Personal & Private Use Only
www.jainelibrary.org