________________
१०६
श्रीदशवैकालिकसूत्रम् वसुदेवस्तदाकर्ण्य,स्वामिनं स्वं व्यजिज्ञपत् । कार्यमेतन्मया कार्यं, देव! तन्मामिहादिश ।।७५७ ।। राजोचे वत्स! योग्योऽसि, न त्वमद्यापि बालिशः । निर्बन्धात् प्रेषितः प्राज्य-प्रौढसेनापरिच्छदः ।।७५८ ।। याति स्म वसुदेवोऽथ, सत्वरं योद्धमुद्धतः ।। वेगेन विहितोत्कण्ठः, श्राद्धे भोक्तुमिव द्विजः ।।७५९।। अथ सिंहरथोऽप्यागात्, सँम्मुखः समरोन्मुखः । आतिथ्यमिवाधातुं, स्वसामग्र्या समग्रया ।।७६० ।। ततस्तयोरभूयुद्धं, मधुमाधवयोरिव । वसुदेवचमू सिंहरथः किञ्चिदनामयत् ।।७६१ ।। वार्ष्णेयोऽथ युधे कंस-सूतःस्वयमढौकत् । ऊचे च मा पशोऽद्रोप्सीः, सेनापसरणादरे! ।।७६२।। कुञ्जरोऽपसरत्यद्रे-स्तटी भॉ न भीतितः । ततो मिथस्तयोस्तत्र, सरोषं युद्धयमानयोः ।।७६३।। ररथादुत्तीर्य कंसोऽथा-भङ्क्षीन्मङ्घ द्विषद्रथम् । सोऽप्याचकर्ष तं हन्तु, खड्गं वृष्णेः सुतस्ततः ।।७६४।। त्सरुदेशे पत्रमिव, तं क्षुरप्रेषुणाच्छिनत् । कंसोऽपि पशुवद् बवा, तं वार्ष्णेयरथेऽक्षिपत् ।।७६५ ।। युग्मम् अथाच्छेद्य दलं तस्य, तं सहादाय च द्विषम् । जीतकाशी सुतो वृष्णेः, क्रमेणागानिजं पुरम् ।।७६६।। . . आचख्यौ वसुदेवस्य, कृत्वैकान्तं यदुप्रभुः । निमित्तिना क्रोष्टुकिना-स्माकमाख्यातमस्त्यदः ।।७६७।। जरासङ्घसुता जीवयशा निर्लक्षणास्त्यसौ ।
क्षयकृज्जीवयशोः , पत्युः पितृकुलस्य च ।।७६८ ।। १. आग्रहाद् ।। * ०ज्ञः ५ , ज्ये ८.९. ।। • वसुदेवस्य सन्मुखः ६-१० ।। - दैत्यदानव० ६-१० ।। १. कंसः
सूतः [सारथिः] यस्य १.३ टि० ।। ३. दर्प मा कुरु ।। रे५ ।। १०हूं १ ।। ४. सिंहरथोऽपि ।। ५. मुष्टि .. २ टि०, खड्गमुष्टिदेशे १० टि० ।। + तं क्षुरप्रेण चाच्छिनत् ६-१० ।। ६. विजयेच्छुः ।। ७. समुद्रविजयः ।। ८. प्राणकीयोः ।। . ०सा २ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org