________________
१००
श्रीतिलकाचार्यविरचितटीकायुतम्
मा स्थात् कुत्रापि नैः प्रेयान्, यत्पौरीरूपलोलुपः । इतीवेन्दोः करासक्ताः, तारा भ्राम्यन्ति सर्वतः ।।७४६।। प्रतिभूः पुण्यमेवैक-मत्रामुत्रापि सम्पदाम् । अर्जयन्ति जना यत्र, तँत्तदेव प्रयत्नतः ।।७४७।। निखिलेऽपि पुरे यत्र, द्वे एव वसतः स्त्रियौ । देहेषु भारती देवी, गेहेषु कमला पुनः ।।७४८।। सैत्यसन्धः पराक्रमैः ।
तत्र राजा जरासन्धः,
★
जयश्रीकृतसम्बन्धः, क्लृप्तबन्धः पुनर्द्विषाम् ।।७४९।।
गच्छतोऽस्य विजयाय सर्वतः शश्वदश्वनिकरेण रेणवः ।
शेषर्सर्पशिरसो धराभरो- त्तारणाय वियतीरिताः किल । ।७५० ।। रथोद्धता
यः सर्वदा नरेन्द्रो, निस्तूं(स्त्रि) शं भुजगमेव खेलयति । तस्याहिभयं कस्मादपरेभ्यो वा नरेद्रेभ्यः । । ७५१ ।। आर्या विमलतरवारिधारा-तीर्थस्पर्शेन दस्यवो यस्य ।
एकैका अपि चित्रं, पञ्चत्वं प्राप्नुवन्ति जवात् ।।७५२ ।। आर्या उत्खाय यस्य तुरगौघखुरैः खराग्रैःस्थानादपास्तमपि भूरि रजो न भोगम् । सर्वं सहोत्थमिति तापहृते तदूर्ध्वम्
चक्रे चलत्पटनिवासमिवाम्बरे तत् ।। ७५३ ।। वसन्ततिलका अन्यदा श्रीजरासङ्घ-स्त्रिखण्डभरतेश्वरः ।
ऊचे दूतमुखेनैवं, समुद्रविजयं नृपम् ।।७५४ ।। अस्ति वैताढ्यशैलस्यो-पान्ते सिंहपुरं पुरम् । राजा सिंहरथस्तत्र, बद्ध्वा प्रेषयतात्र तम् ।।७५५।। यश्च जेष्यति तं तस्य, दास्येऽहं पारितोषिकम् ।
स्वां जीवयशसं पुत्रीं, देशं चैकं तदीप्सितम् ।।७५६।।
स्थाः १.२.७-१० ।। १. अस्माकम् ।। २. प्रियः ।। ०पैः ८ ।। ३. साक्षि ।। ० आ० २ ।। ४. तत्ततः
तदेव पुण्यमेव ।। ५. सत्यप्रतिज्ञः ।। न्धैः ६.८-१० ।। ४.६-१० ।। ६. स्वपक्षजनितभयम् १० टि० ।। बद्ध्वा प्रेषयात्र तम् ६-१० ।।
क्रु० २ ६ ।। ०शीर्ष ०१, ०शीर्षशिखराद् २०० ४ ।। ७. शत्रवः ।। ०तस्त० ५ ।। त्वं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org