________________
१०२
श्रीतिलकाचार्यविरचितटीकायुतम् सिंहरथजयाञ्चैष, तुभ्यमेतां प्रदास्यति । सा निषेध्या कथं? सोऽवक्, बद्धः कंसेन युध्यसौ ।।७६९।। ततः कंसेन लभ्यासौ, राजोचे न वणिक्सुतः । लप्स्यतेऽसौ परं शौर्यात्, क्षत्रियोऽयं विभाव्यते ।।७७० ।।
अथ राज्ञा वणिक् पृष्टः, कंसवृत्तं यथास्थितम् । कंसप्रत्यक्षमाचख्यौ, आर्पयत् पैत्रिकोर्मिके ।।७७१।। राज्ञाथ पत्रिकावाचि, उग्रसेनस्य कान्तया । दोहदादपि धारिण्या, भीतया रक्षितुं पतिम् ।।७७२।। मुद्रिके निजनामाङ्के, पुत्रकः पत्रिकान्वितः । प्रक्षिप्य कांस्यपेटायां, यमुनायां प्रवाहितः ।।७७३।। युग्मम् राजाथोवाच कंसोऽयं, यदुवंशाग्रमौक्तिकम् । उग्रसेनात्मजः कस्या-न्यस्य स्यादीदृशं बलम् ? ।।७७४।। सकंसोऽथागमद्भूपः, सन्निधावर्द्धचक्रिणः । समर्प्य तं सिंहरथ-मूचे कंसपराक्रमम् ।।७७५।। ततो जीवयशःकंसौ, जरासन्धो व्यवाहयत् । याचितां पितृमात्सर्यां, मथुरां च पुरीं ददौ ।।७७६।। श्वशुराद् बलमादाय, गत्वा च मथुरा पुरीम् । कंसश्चिक्षेप निजकं, जनकं काष्ठपञ्जरे ।।७७७।। आत्मजेन यथा पाप-कर्मणा ध्वस्तशर्मणा । क्षेत्रज्ञः क्षिप्यते क्षिप्रं, बद्ध्वा नरककोटरे ।।७७८ ।। तदानीमुग्रसेनस्य, पुत्रोऽभूदतिमुक्तकः । कंसनिस्तृ(स्त्रि)शतां दृष्ट्वा, वैराग्याद् व्रतमग्रहीत् ।।७७९।। आकार्य सौर्यनगरात्, पोषकं पितरं च तम् ।
आनर्च स्वर्णरत्नाद्यैः, कुर्वनिव कृतज्ञताम् ।।७८०।। *०क्षौ १ ।। १. पत्रिकागते ऊर्मिके च पत्रिकोर्मिके ३ टि० ।। . जा० ८ ।। ००सि० २ ।। स्वपुर्याद् ५, स्वपुराद् ६-१० ।। है ०रा० ३-५.७. ।। २. जीवः १० टि०।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org