SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् नन्दिषेणमुनीन्द्रोऽपि ययौ निजमुपाश्रयम् । , पृष्टश्च कथयामास, स साधूनां यथातथम् ।।७११।। ततः संयमयोगैः स्वं, तस्य भावयतः सदा । वैयावृत्यकरस्यागाद्, द्वादशाब्दसहस्रिका ।। ७१२ । । ततो गृहीतानशनः सोऽप्यन्ते मुनिसत्तमः । निदानं विदधाति स्म, स्मृत्वा दौर्भाग्यकर्म तत् ।।७१३।। चेत्तपोनियमब्रह्म-चर्याणामस्ति मे फलम् । स्यां प्रेत्य रूपवानाढ्यः, सर्वस्त्रीवल्लभस्ततः ।।७१४।। एवं निदानमाधाय, साधुः सञ्जायते स्म सः । महाशुक्राभिधे स्वर्गे, शक्रसामानिकः सुरः ।।७१५।। नन्दिषेणस्ततश्च्युत्वा त्वदीयस्तनयोऽभवत् । रूप-लावण्य-सौन्दर्यै-मूर्तिमानिव मन्मथः । । ७१६ ।। किमुच्यतेऽस्य सौभाग्य-सौरभं यदजायत । जगत्त्रयेऽपि नान्यत्र, तस्यास्ते वेर्णिकापि हि ।। ७१७ ।। ततः समुद्रविजयं, राज्ये न्यस्यादिमं सुतम् । प्रव्रज्य सुप्रतिष्ठान्ते-ऽन्धकवृष्णिः शिवं ययौ ।।७१८ ।। भोजवृष्णिः प्रवव्राज, मथुरायामथो नृपः । उग्रसेनोऽभवत्तस्य, पट्टराज्ञी तु धारिणी ।। ७१९ । । तत्रास्ते तापसः शैल-कन्दरे मास । मासान्तेऽप्याद्यगेहाप्त-मेव भुङ्क्तेऽन्यथा न तु ।। ७२० ।। अभुक्तोऽपि पुनर्मासं, क्षिपत्येवमभिग्रही । ४ अन्येद्युस्तं बहिर्गच्छन्, भौतं प्रेक्ष्योग्रसेनराट् ।।७२१।। पारणाय निमन्त्र्यागा-दन्वागात्तपसोऽपि सः । प्रस्तावोऽभून्न तद्भुक्त्यै, अभुक्त्वागाद्देरीं पुनः ।।७२२ ।। १. आत्मानम् १० टि० ।। ०क्रः २ ।। ०भूत्तदा २.६-१० ।। ०भूद् २.६ १०. ।। २. अद्भुतम् ।। ३. सुप्रतिष्ठाचार्यसमीपे ।। ०नः ५ ।। ४. तापसम् ।। दान्तं ४ ।। ०न्व० ६-१० ।। ५. कन्दराम् ।। Jain Education International ९७ For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy