SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ९६ श्रीतिलकाचार्यविरचितटीकायुतम् यातस्तस्याथ यत्नेन, स्कन्धारूढः सुव्रती । मुमोचातीव दुर्गन्धां, विष्ठां स्फोटितनासिकाम् ।।६९८ ।। ऊचे च प्रचलन्तं तं, वेगघातं करोषि मे । आः ! किं मां दुष्टशैक्ष! त्वं, मारयिष्यसि रोगिणम् ।।६९९ ।। नन्दिषेणः पुरीषेण, लिप्यमानोऽपि शुद्धधीः । जुगुप्सते स्म तं नैव, वपुस्तत्त्वं विभावयन् ।।७००।। तदुर्वचांस्यपि श्रुत्वा, विषादपि कटूनि सः । दध्यौ रोगग्रहार्तोऽयं, यत्किञ्चन विभाषते । । ७०१ ।। पुनस्तद्दुःखदुःखार्त्तः, कारुण्यरससागरः । व्यंचिन्तयन्नन्दिषेणः, कथं नीरुग्भवेदयम् ? ।। ७०२ ।। इत्थं शुद्धाभिसन्धितं, दृष्ट्वा कष्टे महत्यपि । जात्यै॑जाम्बूनदमिव, प्राप्तरेखं कष ।।७०३ ।। सत्त्वेन रञ्जितस्तस्य, संहृत्याशुचिपुद्गलान् । सौगन्ध्याकृष्टरोलम्बां, पुष्पवृष्टिं सुरोऽमुचत् ।।७०४।। विमुच्य मुनिवेषं च, पुरोभूय स्वरूपभाक् । प्रदक्षिणात्रयं दत्वा, नत्वा च स्माह तं तदा । ।७०५।। शक्रश्चक्रे तव श्लाघा-मसहिष्णुश्च तामहम् । भोक्तुमेतावन्ती वेला-मन्तरायं व्यधां मुने! ।। ७०६ ।। परं श्लाघातिगः साधो !, वैयावृत्योद्यमस्तव । ततो धन्यैः कृतार्थस्त्वं, सुलब्धं नरजन्म ते ।।७०७।। औगः क्षमस्व मे स्वामिन् !, क्षमामय! तपोमय! । वरं वृणु महासत्त्व!, पुण्यार्थं मम किञ्चन ।। ७०८ ।। साधुरूचे मया लेभे, जिनधमोऽतिदुर्लभः । एतावतैव पर्याप्तं, नार्थो मेऽन्येन केनचित् । ।७०९ ।। ततो निस्पृहभावेन, प्रीतस्तस्य विशेषतः । जगाम त्रिदिवं देव-स्तद्गुणस्तुतितत्परः ।।७१०।। * वि० २ ।। १. शुद्धप्रतिज्ञावन्तम् ।। ७ ०त्यं जा० १.३, ०त्यं० ४.९ ।। २. भ्रमरा १० टि० ।। ० ०न्य० २ ।। ३. अपराधम् ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy