SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् -सोऽवदद् बहिरस्त्येकः, साधुर्लानोऽतिसारकी । वैयावृत्यकराभावात्, पिपासार्तो मरिष्यति । । ६८६ ।। नन्दिषेणोऽवदद् भद्र!, त्वं मे दर्शय तं मुनिम् । येनाहं प्रतिजागमिं, पथ्यौषधचिकित्सकैः ।। ६८७।। सद्मसद्माऽनुप्रवेशं से ततोऽशोधयत् पयः । अनेषणां सुरोऽकार्षीत्, मुनिं चालयितुं स तम् ।।६८८।। तत्क्रियाविस्मयव्यग्रे, सुरे शुद्धाम्बु सोऽग्रहीत् । सपद्येव गतस्तस्य, साधोग्लनस्य सन्निधौ । । ६८९ ।। अथाचुक्रोश साधुस्त-महमीदृग्दशोऽस्मि भोः ! । त्वं च भोजनगृद्धोऽसि, ग्लानचिन्तापि नास्ति ते । । ६९० ।। यथा यथोच्यसे वैयावृत्यकृत्त्वमभिग्रही । ३ तोषात् तथा तथोच्छूनः, किन्तु सम्पत्स्यसे मुने । । । ६९१ । । वैयावृत्य मकुर्वंस्त्वं, कुर्वतोऽन्यान्निषेध्य च । गृहीत्वाभिग्रहं ग्लान-गलके त्वमुपाविशः । । ६९२ । । अन्तःक्षुत्तापतप्तोऽपि तद्वाक्यैरप्यरुन्तुदैः । सोऽजातविक्रियः साधुः कदाप्यस्पृष्टवत्क्रुधा ।।६९३ ।। अतिप्रसन्न एवोचे, तं ग्लानं सुकुमारगीः । भोः ! क्षमस्वापराधं मे, त्वां करोम्येष नीरुजम् । । ६९४।। युग्मम् इत्युक्त्वा क्षालयित्वा तं, पाययित्वा च तत्पयः धृत्वा बाहू बभाषे च, वसतावेहि सम्प्रति ।।६९५ ।। सोऽवदत् कुपितः सद्यो, धिक् त्वां मुण्ड ! निरक्षर ! । क्षामदेहमिमं मां त्व-मिदृक्षं प्रेक्षसे न किम् ? ।।६९६ ।। तं निधाय ततः स्कन्धे, नन्दिषेणोऽचलन् मुनिः । जल्पन् मा म धुनीहीति, सोऽप्याक्रोशत् पदे पदे । । ६९७ ।। १. सेवां करोमि ।। २. नन्दिषेणः ।। ३. उन्नतः १० टि० ।। पुनः २ ।। ४. मर्मपीडकैः ।। ५०वान् क्रु० ५ ।। त्वं २.५. ।। मा५ ।। Jain Education International ९५ For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy