________________
श्रीतिलकाचार्यविरचितटीकायुतम् कृत्यचित्तं नमस्कृत्य, मौलीकृत्य कराम्बुजम् । मध्येसभं स देवेद्रः, शश्लाधे धूनयन् शिरः ।।६७५ ।। अहो मुनिर्नन्दिषेणो, वैयावृत्यकृतोद्यमः । महासत्त्वः स्मरत्त्वः, क्षोभ्यते नामरैरपि ।।६७६।। अश्रद्दधानः शक्रस्य, कोऽपि तद्वचनं: सुरः ।
आगात् ततः परीक्षार्थं, नन्दिषेणमहामुनेः ।।६७७।। . सोऽथारण्ये विकृत्यैक-मतीसारकिणं मुनिम् । द्वितीयमुनिरूपेण, साधूपाश्रयमाययौ ।।६७८।। उच्चैर्ललाटपट्टाध्या-रोपितेक्षणगोलकः । दुर्दर्शनो जजल्पैवं, नन्दिषेणः क्व स क्व सः ? ।।६७९।। नन्दिषेणमुनीन्द्रस्तु, तदा षष्ठस्य पारणे ।। बुभुक्षुक्त्तवक्त्रोऽस्ति, गृहीत्वा कवलं करे ।।६८०।। चित्तार्गलितचारित्र-कुम्भिनो भोगपिण्डवत् । , बुभुक्षापक्षिणीत्रास-हेतोोलमिवाथवा ।।६८१।। युग्मम् विलोक्य तादृशं तं च, प्रोवाच परुषाक्षरम् । अरे! त्वं नन्दिषेणोऽसि, त्वं वैयावृत्यकारकः ।।६८२।। गृहीत्वाभिग्रहममुं, त्वमौदोरिकखादकः । भृत्वाहारकवत्पात्र-मुपाविष्टोऽसि खादितुम् ।।६८३।। अगृद्धो भोजने जल्पन्, मिथ्या दुःकृतमस्त्विति । नन्दिषेणोऽपि सम्भ्रान्त-स्त्यक्त्वा कवलमुत्थितः ।।६८४।। सुधामधुरगीः साधु, तमूचे कार्यमादिश ।
आसीनो भोजनायाऽह-मविदस्ते प्रयोजनम् ।।६८५ ।। * कृतकृत्यं ६-१० ।। * ०त्ये २ ।। ० स्फु० ५ ।। अ० ७.९.१० ।। ३ ०प: १० ।।+ ०धा० ६., ०धो० ८-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। . ०श्च २.६-१० ।। १. चित्तमें रोकवा हाथीकां [मनोऽङ्कशितसंयमहस्तिनः] १० टि० ।। 0 मिमं ८ ।। २. उदरमात्रपूर्णापक्षकः १० टि० ।। * हीरं ६.९., ०ही० ८.१० अयं मूलपाठः १० टिप्पण्यामपि ।। ३. ग्रास १० टि ।। . ०धुः ५ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org