________________
श्रीदशवैकालिकसूत्रम् सानन्दस्तं ववन्दे च, नन्दिषेणोऽथ भक्तितः । ज्ञात्वा तदाशयं ज्ञाना-तिशयान्मुनिरब्रवीत् ।।६६३।। भद्र! सञ्चिनु भद्राणि, मा कृथाः साहसं वृथा । जीवेन सह कर्माणि, यान्त्यन्यत्रापि यद्भवे ।।६६४।। त्वमेवं मन्यसे यन्मे, दौर्भाग्यादिकमीदृशम् । पक्षीवोन्मूलितं वृक्षं, परित्यक्ष्यति मां मृतम् ।।६६५ ।। कर्मेदम भूतं वा, तपोभिर्वातिदुस्तपैः । क्षपितं भस्मसात्कृत्य, याति नैवान्यथा पुनः ।।६६६।। ततस्तत्र मुनिस्तस्य, कृत्वा सद्धर्मदेशनाम् । प्रतिबोध्य ददौ दीक्षां, कर्मकक्षदवार्चिषम् ।।६६७।। ततोऽधिगतसूत्रार्थः, सत्संवेगतरङ्गितः । त्रिगुप्तः पञ्चसमितः, साध्वाचारकतत्परः ।।६६८।। प्रवर्धमानवैराग्यः, प्रोल्लसद्भाग्यसञ्चयः । स्वशरीरनिराकाङ्क्ष-स्तपःपङ्कजषट्पदः ।।६६९।। गच्छवासमुरीकृत्य, सिद्धिवासकृतस्पृहः । जग्राहाभिग्रहं साधु-वैयावृत्यविधौ सुधीः ।।६७० ।। त्रिभिर्विशेषकम् अविश्रान्तस्ततश्चक्रे, वैयावृत्यं स साधुषु । नित्यं पानान्नभैषज्य-वपुर्विश्रामणादिकम् ।।६७१।। तपः षष्ठादिषण्मासी-पर्यन्तं च सदैव सः । तपस्यति स्म शुद्धात्मा, सन्तोषामृतनिर्वृतः ।।६७२ ।। वैयावृत्येन तेनाथ, तपोभिस्तैश्च तादृशैः । नन्दिषेणस्ततः साधुः, प्रसिद्धि प्राप सर्वगाम् ।।६७३।।
अन्यदावधिना पश्यन्, भरतं शक्रदेवराट् । नन्दिषेणमुनीन्द्रस्य, वैयावृत्येन विस्मितः ।।६७४ ।। ००१ ।। . ०० १.५ ।। 0 ०० ५ ।। त्याय नित्यशः ६-१० ।। है कष्टा० २ ।।+ मि० १०, । अयं मूलपाठः १० टिप्पण्यामपि ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org