________________
९२
श्रीतिलकाचार्यविरचितटीकायुतम्
एवं शेषाभिरप्येष, सर्वोभिः प्रत्यषिध्यत । गतानुगतिको लोकः, प्रायेण भवतीह यत् ।।६५१ । । नासापुटं मोटयन्त्यः, स्वसौभाग्येन गर्विताः । दृष्ट्वा ग्रामतरुण्यस्तं, न्यष्ठीवन्नपरा अपि ।।६५२ ।। अहो नास्य समः कोऽपि, विद्यते नरशेखरः । इत्याद्युपहसद्भिश्च, स ग्राम्यैरप्यखेद्यत ।। ६५३ ।। मातुलः पुनरूचे तं, याचिष्ये तेऽन्यतः सुताम् । उपानत्पादमानेन, धीरो भव भविष्यति । । ६५४ || तदनाकर्ण्य दध्यौ स, नन्दिषेणोऽतिखेदभाक् । धिग् मां कुरूपं दौर्भाग्य-विषकूपं विलक्षणम् ।।६५५ ।। योऽहं मातुलपुत्रीभिरप्येताभिर्न वाञ्छितः ।
तदेतं मार्मचक्षुष्यं, वाञ्छिष्यन्त्यपराः कथम् ? ।।६५६।। ततो वैराग्यमापन्नो ऽननुज्ञाप्यैव मातुलम् । निर्गत्य नन्दिषेणोऽगात्, पुरं रत्नपुराह्वयम् ।।६५७३) - विलोक्य निखिलान लोका- ललतो ललनाजनैः । स तत्र चित्रालङ्कारान्, सुरीवृन्दैः सुरानिव । । ६५८ ।। निनिन्द स्वं विशेषेण, नन्दिषेणस्ततो यथा । दुःखसंवेदनायैर्वै, विधिर्मां विदधे ध्रुवम् ।।६५९।। युग्मम् सम्भावयति मां कापि, दृशापि युवतिर्न यत् । दौर्भाग्यं मयि तत्सर्व, जाने धात्रास्ति पिण्डितम् ||६६०||
तत्किं मे जीवितव्येन ?, मृत्युरेवाधुना वरम् । इति ध्यात्वा जगामासौ, वनमुद्वं धनेच्छया ।।६६१।।
तत्रैकत्र लतागेहे, सुस्थितं सान्वयाभिधम् ।
मुनिं सोऽतीन्द्रियज्ञानं, धर्ममूर्तमिवैक्षत ।। ६६२।।
०र्व्वतः ६.८-१० ।। १. तिरश्चक्रुः ।। २. अप्रियदर्शनम् १० टि० ।। ५०कान्, ला० १० ।। ० ० ८ ।।
व्ये० ४ ।। ३. श्रेष्ठम् ।। । धर्ममूर्ति० १.६.८-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org