SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् चिंपिटस्थपुटघ्राणः, कुष्टरोगाभिभूतवत् । त्रिकोणमौलिस्त्रिकवत्, कुरूपाणां निदर्शनम् ।।६३८ ।। तस्य बालकभावेऽपि, विपन्नौ पितरौ ततः । जिजीव भिक्षाचरवद्, दीनवृत्त्या कथञ्चन ।।६३९ ।। कियत्यपि गते काले, स्वीकृतो मातुलेन सः । तिष्ठस्तत्र स कर्माणि, कुर्वन्नौच्यत कैश्चन ।।६४०।। मुधा किं कर्मकरवत्, कुरुषे कर्म दुर्मते! । अथोन्मनायमानं तं, ज्ञात्वा मातुल ऊचिवान् ।।६४१।। अनभिज्ञोऽसि मुग्धस्त्वं, परोक्तैर्भद्र! मा मुहः । उत्रिपुट्याः प्रजायन्ते, पातनायैव मूषकाः ।।६४२।। ततस्त्वमिह विश्वस्त-स्तिष्ठ वत्स! स्वगेहवत् । समये परिणाय्य त्वां, करिष्ये गृहमेधिनम् ।।६४३।। पुत्र्यस्तिष्ठन्ति मे सप्त, तत्र प्राप्तवरां सतीम् । तुभ्यमाद्यां प्रदास्यामि, चिन्तां कामपि मा कृथाः ।।६४४ ।। स कर्मकरवत्प्रौढः, सानुकूलमनास्ततः । समग्राण्यऽपि कर्माणि, मातुलस्य गृहेऽकरोत् ।।६४५।। मातुलस्य तनूजाथ, प्रथमा प्राप यौवनम् । नन्दिषेणस्य दास्यन्ति, मामित्याकर्ण्य चावदत् ।।६४६।। कुरूपो दुर्भगश्चासौ, यदि मां परिणेष्यति । असन्देहं विपत्स्येऽहं, कूपपातादिभिस्तदा ।।६४७।। नन्दिषेणोऽप्यदः श्रुत्वा, वचस्तप्तत्रपूपमम् । विलक्षस्तत्क्षणाजज्ञे, शाखास्रस्तप्लवङ्गवत् ।।६४८।। । मातुलस्तमथावादी-दधृतिं हन्त! मा कृथाः । द्वितीयां ते सुतां दास्ये, स्थिराणां श्रीभवेत् खलु ।।६४९।। भणिता समये सापि, वाञ्छति स्म न तं पतिम् । सकर्णः कोऽपि किं जीवः, स्पृहयेन्नरकं क्वचित् ?।।६५० ।। * मनस्यधृतिमाधत्त, प्रलम्बच्युतवत्कपिः २.६-१०, अयं मूल पाठः १० टिप्पण्यामपि ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy