________________
1516 17
श्रीतिलकाचार्यविरचितटीकायुतम् गुरूपदिष्टां श्रीषेणः, शङ्खस्तेनापितां पुनः । दधानौ द्वावपि प्रीति, पालयामासतुः क्षमाम् ।।६०५ ।। स तपःपरशूत्खात- कर्मशाखी महाऋषिः । सम्प्राप्तकेवलज्ञान-निधिः स्वपुरमागमत् ।।६०६।। नत्वा तं भक्तितः शङ्खः, श्रुत्वा तद्धर्मदेशनाम् । अपृच्छन् मे यशोमत्यां, कथं प्रेमाधिकं प्रभो ! ।।६०७।। आख्यन्नवभवाबन्धं, केवली तन्निबन्धनम् । पुण्डरीकं यशोमत्याः, सुतं न्यस्य निजे पदे ।।६०८।। तृत्पाधै व्रत्यभूत् शङ्खः, सभ्रातृसचिवप्रियः ।। निरतीचारचारित्र-पवित्रीकृतभूतलः ।।६०९।। भक्त्याऽर्हत्सिद्धवृद्ध-प्रवचनसुतपः-सूरिभूरिश्रुतानां, वैयावृत्यात् समाधेः, क्षणलवविनय-त्यागसम्यक्त्वशीलैः । नित्यं ज्ञानोपयोगा-दभिनवपठनात्, शासनोद्भावनेनाऽवश्यं कार्यस्तपोभिः, श्रुतबहुमतित-स्तीर्थकृत् कर्मबद्धा ।।६१० ।।
सन्दानतिकम्, स्रग्धरा पादपोपगमं कृत्वा, गतवानपराजितम् । भ्रातरौ दयिता मन्त्री, तेऽपि तत्र तमन्वगुः ।।६११।। सम्प्राप्तुकामावभयं महोदयम्, विश्वासयन्तौ किल मोहभूपतिम् । कुर्माष्टकप्राहरिकैः समन्विता-वगच्छतां तौ गतिमुत्तरोत्तराम् ।।६१२ ।। उपजाति: निवेदितौ द्वाविह सप्तमाष्टमौ, श्रीनेमिनाथस्य जगत्प्रभोर्भवौ ।
व्याख्यायमानं नवमं भवं जनाः, शृण्वन्त्वमुं साम्प्रतमेकचेतसः ।।१३।। उपजाति: * श्रीषेणः पालयामास, गुरुदत्तामसौ क्षमाम् । शङ्खोऽपि पालयामास जनकेनार्पितां क्षमाम् । ६-१० ।। १. श्रीषेणपक्षे-क्षान्तिम्, शङ्खपक्षे-पथ्वीम् ।। . ०कन्दो २.६-१० ।। - वि० ६.८-१० ।। * अर्हद्भक्त्यादिभिः स्थानैस्तीर्थकृत्कर्महेतुभिः ( चार्जयत् ६-१० ।।) २.६-१० ।। है अयं श्लोकः ६-१० प्रतिषु नास्ति ।। २. तपस्वि ३ टि० ।।+ शश्वज्ज्ञानोपयोगात् स्थिरविनयतपस्त्यागसम्यक्त्वशीलैः । वैयावृत्या समाधेः प्रवचनमहिमावश्यकापूर्वसंवित्, पाठैः सिद्धान्तभक्त्या व्यरचयदिमकैस्तीर्थकृतामका ।। ।।१यो० १ ।। ३. तदाख्यदेवलोकम् ।। । अयं श्लोकः ६-१० प्रतिषु नास्ति ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org