SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रीदशवकालिकसूत्रम् ८७ शङ्खोऽभ्यधादिमां पूर्व, परिणीय यशोमतीम् । पश्चात् पुनर्भवत्पुत्रीः, परिणेष्याम्यमूरपि ।।५९३।। सधात्रीकयशोमत्या-ऽन्वितं शङ्ख तथात्मजाम् । अधिरोप्य विमानेऽथ, चचाल मणिशेखरः ।।५९४ ।। विद्याधरास्तथान्येऽपि, गृहीत्वा स्वस्वपुत्रिकाः । सार्धं शङ्खकुमारेण, चलन्ति स्म विमानगाः ।।५९५ ।। उपचम्पं गताः सर्वे, जितारिर्वधितोऽग्रगैः । महत्या प्रतिपत्त्या तान्, सोऽथ प्रावेशयत् पुरि ।।५९६ ।। हृष्टः शङ्खगुणैः शङ्ख-यशोमत्योः करग्रहम् । अचीकरज्जितारिH-गवाङ्मनसगोचरम् ।।५९७ ।। अथ ताः खेचरानीताः, कन्याः शङ्खमुपायत । ततः सत्कृत्य निःशेषान्, खेचरान् विससर्ज तान् ।।५९८ ।। कियतोऽपि दिनान् स्थित्वा, जितारिनगरे स्वयम् । तत्र श्रीवासुपूज्यार्चा, यशोमत्या सहार्चयत् ।।५९९।। जितारिनृपमापृच्छय, भूरिसेनापरिच्छदः । हस्त्यश्वस्वर्णरत्नाद्यैः, खेचरप्राभृतीकृतैः ।।६०० ।। शङ्खश्चचाल कान्ताभि-यशोमत्यादिभिर्वृतः । गोपीभिरिव गोविन्द-स्ताराभिरिव चन्द्रमाः ।।६०१।। युग्मम् स्वपुरं सत्वरं प्राप्तो, जनकेनाभिनन्दितः । 'पुरे प्राविशदेकोऽपि, पौराणां मानसेषु च ।।६०२।। ... तौ सोमसूरौ प्राग्जन्म-बान्धवावारणाच्युतौ । यशोधरगुणधरौ, सञ्जातावनुजौ पुनः ।।६०३।। राज्यं वितीर्य शङ्खस्य, श्रीषेणः क्षितिपोऽन्यदा । गुणन्धरगुरोः पार्श्वे, व्रतसाम्राज्यमग्रहीत् ।।६०४ ।। - हृष्टः शङ्खयशोमत्योः, करग्रहमहोत्सवम् ६-१० ।। १. प्रतिमा २ टि० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy