SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् 1 गुप्तिष्विवौकस्सु निबध्य रात्रौ द्वाराणि रुद्धस्तिमिरैर्जनो यत् । रुषारुणस्तत्तरणिः कराग्रै-रुदेति तानि प्रमथन् प्रभाते ।। ५६९।। तमांसि निष्कन्ध समेतमुय, सूरं प्रतापाभिमुखं निरीक्ष्य । द्विजा उदात्तध्वनिभिः प्रभाते, आशीर्वचांसीव वदन्ति मोदात् ।।५७०।। उपजातिः अन्तर्बहिश्चापि जनस्य रङ्गं, सर्वस्य कुर्वन् मृदुभिः करैः स्वैः । निघ्नंस्तमांसि क्षणदाचराणि, प्रभाकरो राम इवाभ्युदेति । । ५७१ ।। उपजातिः प्रातर्विकसदम्भोज-मध्यबद्धालिनिर्गमात् । गुप्तीरमोचयन् मन्ये, दिनराजो नवोदितः ।। ५७२।। चण्डद्युतिकराघात- ताडितं खण्डशो गतम् । तमः काककुलव्याजाद्, दीनं रसदिवाऽऽरवैः ।। ५७३।। विशालशृङ्गशैलस्य, गह्वरे तामथैक्षत । विवाहार्थं च याचन्तं, खेचरं तत्पुरं स्थितम् ।।५७४।। शङ्खं विना न भर्त्ता मे, भावी जन्मान्तरेऽपि हि । इत्युत्तरं ददानां तां श्रुत्वा शङ्खोऽप्यरज्यत ।। ५७५ ।। दृष्टस्ताभ्यां च शङ्खोऽपि, हृष्टास्यैव यशोमती । भूयो भवभवप्रेमा-नुभवः किमनुद्भवः ।।५७६ ।। खेचरोऽप्याह तां भद्रे !, शङ्खोऽयं ते मनीषितः । तदेतं चूर्णयित्वा त्वां परिणेष्येऽधुना सुखम् ।।५७७ ।। शङ्खस्तद्वाचमाकर्ण्य, तं साक्षेपमदोऽवदत् । , अरे! भव युधे सज्जः, परस्त्रीहृतिपातकिन् ! ।।५७८ ।। . तौ द्वावप्यथ सामर्षी, महीचरनभश्च । युयुधातेतमां यद्वत्, केशवप्रतिकेशवौ ।।५७९ ।। । कुमारो लघुहस्तत्त्वात्, तस्याच्छिद्य कराम्बुजात् । धनुर्यष्टिमुपादत्र्त्ते, शौर्यश्रियमिवाङ्गिनीम् ।।५८०।। ० विश्य ६-९ ।। प्रथयन् ४ ।। ०थे० २ ।। नवोत्पन्नः २ टि० ।। + त्वा ५ ।। २. युद्धार्थम् ।। Jain Education International ८५ For Personal & Private Use Only उपजातिः ०२०१ ।। ०श्वेवाऽथ तत्प्रिया २.६-१० ।। १. ०त० २ ।। ० ते ८-१० ।। www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy