________________
८४
श्रीतिलकाचार्यविरचितटीकायुतम्
तं सहादाय शङ्खोऽथ, वलितः स्वपुरं प्रति । आवासानन्तराले च, गृहीत्वा तत्रै तस्थिवान् ।।५५७।।
शय्यायां शयितो रात्रौ, शुश्राव करुणस्वरम् । स्वरं व्यञ्जनवत्तं स, उत्थायानुसरंस्ततः ।। ५५८ ।। तदानीमेव तत्रागाद्, दृष्ट्वा कात्यायँनीं स्त्रियम् ।
अपृच्छत् किमरण्ये त्वं ?, किं वा रोदिषि ? साभ्यधात् ।।५५९ ।।
अङ्गेषु वत्स ! चम्पायां, जितारिनामभूपतिः ।
तस्य कीर्तिमती कान्ता, तद्भूः पुत्री यशोमती ।। ५६० ।।
अस्या रूपं कलौचित्य-मौदार्यं प्रियवादिता ।
सर्वेषामपि चैतेषां गुणानां मूर्ध्नि धर्मिता । । ५६१ । । पूर्णपात्रे फलमिव, तिलकं मण्डनेष्विव । प्रासादाग्रे कलशवत्, शास्त्राभ्यासे सुबोधवत् ।। ५६२ ।। युग्मम् सानुरूपगुणं कञ्चिद- पश्यन्ती वरं नरम् । श्रीषेणसुतशङ्खस्य, गुणान् श्रुत्वा विसिष्मिये ।। ५६३ । । तमेवाथ पतीयन्ती, नामाप्यन्यस्य नाशृणोत् ।
तां ययाचेऽन्यदा दृष्ट्वा, खेचरो मणिशेखरः ||५६४ ।। अहार्षीत् तामनिच्छन्ती-मप्युद्वोढुं बलादौ । अहं त्वमुक्ततद्वाहु-र्धात्री तस्याः सहागमम् ।। ५६५।१ मामुत्सृज्य बलादत्र, तामादायागमत् क्वचित् । तस्याः किं भाव्यऽधृत्येति, विलापो रोदनं च मे । । ५६६।। सोऽवदन्माम्ब ! रोदीस्त्वं, दास्येऽहं तां विजित्य तम् द्रष्टुं विष्वग् भ्रमंस्तत्तां, कान्तां कान्तारमापतत् ।।५६७।। तदा शङ्खकुमारस्या-ऽरण्येऽन्वेषयतः प्रियाम् । अभून्मित्रकरा श्लेषो, नेत्राम्भोजविकासकृत् ।।५६८।।
०स्थित तत्र सः २.६-१० ।। १. अर्धवृद्धा कषायवस्त्राऽथवेति १० टि० ।। ० यि० ५ ।। ० ०दभूः १ ।। * धर्मकर्मसु भाववत् १ टिप्पण्याम्, २.९., धर्मकर्मसुभाभवत् ६.८.१०, धर्मकर्मसु लाभवत् ७ ।।
५.७.।। २. अत्यक्तद्-यशोमतीबाहुः ।। + त्रा० १.५ ।
०व० २ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org