________________
श्रीदशवैकालिकसूत्रम् दुर्गेऽस्ति समरकेतुः, पल्लीशो दशकण्ठवत् । उपद्रवति नस्तस्माद्, रक्ष रक्षोन्तकारिवत् ।।५४५।। त्रातुं तदैव तान् भूभृद्, यात्राभेरीमवादयत् । प्रणम्य प्राञ्जलिः शङ्खः, क्ष्माभृत्पादान् व्यजिज्ञपत् ।।५४६।। स्वर्दन्तिन इवोरभ्रे, गरुत्मत इवालसे । देवपल्लीशमात्रेऽस्मिन्, कोऽयं स्वयमुपक्रमः ।।५४७ ।। मयाप्येष प्रसादाद् वः, सत्वरं विग्रहीष्यते । प्रभाविकासोऽप्यर्कस्य, न तमांसि निहन्ति किम् ? ।।५४८।। राज्ञा प्रैषि ततः शङ्ख-कुमारः सारसैनिकः । द्वित्रैरपि दिनैः प्राप, तस्य दुर्गस्य सन्निधिम् ।।५४९।।
ज्ञात्वा कुमारमायान्तं, मारवद्विश्वजित्वरम् । पल्लीशच्छद्मना त्यक्त्वा, दुर्गं गह्वरमाविशत् ।।५५० ।। तस्य स्वरूपं शङ्खोऽपि, चरैख़त्वा न्ययोजयत् । तदुर्ग निजसेनान्यं, सेनान्यमिव सौज॑सम् ।।५५१।। स्वयं पुनर्निलीयाऽस्था-निकुञ्ज निजसैन्ययुक् । छलं विना न गृह्यन्ते, उत्कटाश्चरटाः खलु ।।५५२।। दुर्गप्रविष्टं विज्ञाय, शङ्खराजं कुतोऽपि सः । झगित्यागत्य तवारं, रुणद्धि स्मोत्तमर्णवत् ।।५५३।। कुमारोऽथ समेत्याशु, वेष्टयामास तं बहिः । तस्यैकस्य रणोऽथाभू-दभितः सैन्ययुग्मतः ।।५५४।। . स्कन्धे कुठारं कृत्वार्थ, परिधाय च कम्बलम् । कुमारं शरणीचक्रे, त्वद्दासोऽस्मीत्यवक् तदा ।।५५५ ।। युद्धं निषेध्य शङ्खोऽथ, तं सर्वस्वमदण्डयत् ।
गृहीत्वा चार्पयत् तस्मा-लोप्नं यद्यस्य तस्य तत् ।।५५६।। .०० २, दि० ६ ।। १. मेषे १० टि० ।। २. भूनागे २.३. टि०, अलसिया इति भाषा० ।। नि० ८.१० ।। • धौ १.२.१० ।। * शाम्भवम् २.५-१० ।। ३. कार्तिकेयम् २.१० टि० ।। हे oर्गे १० ।।+ च ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org