________________
८२
श्रीतिलकाचार्यविरचितटीकायुतम्
शङ्खशुभ्रं पूर्णचन्द्रं, प्रविशन्तैमिवानने । स्वप्ने पश्यन्निशाशेषे, सान्यदा नृपवल्लभा ।। ५३४ ।। तयाख्याते प्रगे राजा, तज्ज्ञैर्निष्टङ्क्य शिष्टवान् । सोममूर्तिस्तमोध्वंसी, भावी देवि ! तवात्मजः ।। ५३५ ।। यत्रानङ्गोऽपि जेता तं, त्यक्त्वा रणमिवारणम् । अग्रेऽपराजित इति, पराभवभयादिव ।।५३६।। कुले जयवति स्फीते, श्रीमतीकुक्षिमागमत् । प्रसवं कल्पवल्लीव, समयेऽसूत सा ततः ।। ५३७।। युग्मम् असौ समृद्धये भावी, दक्षिणावर्तशङ्खवत् । तैस्य राट् शङ्ख इत्याख्यां, कृत्वा जन्मोत्सवं ददौ ।।५३८।। कलाग्रहणकाले च, कलाचार्यादुपाददे ।
न्यासीकृता इव कलाः, सपद्येवाखिला अपि । । ५३९ ।। जीवो विमलबोधस्य, च्युत्वैकादशकल्पतः । श्रीषेणमन्त्रिणः सूनु-र्भवति स्म मतिप्रभः । । ५४० ।। सहजः सहवृद्धश्च, प्रकर्षं च परं गतः । संख शङ्खकुमारस्य, यौवनस्येव मन्मथः ।।५४१।। सोऽतिक्रम्य क्रमाद् बाल्य-मारूढः प्रौढयौवनम् । उल्लन्ध्योदयशैलाग्रं, व्योममध्यमिवार्यमा ।।५४२ ।।
४
अथान्यदा जानपदाः, पूत्कुर्वन्तः समाययुः । सुप्तां पृथ्वीपतेरुज्जा- गरयन्त इव क्रुधम् ।।५४३ ।। व्यजिज्ञपन्नराधीश - मी ! त्वद्देशसीमनि ।
विशालशृङ्गेऽद्रौ चन्द्र-शिशिराख्यनवृते ।।५४४।।
०न्तं निजा० ६-१० ।। १. निश्चित्य ।। सत्कर्मविच्युतिकरं, प्रोज्झ्यारणमिवारणम् । अपराजित जीवोऽथ धर्मकर्मक्रियोज्वलः । ३-५ ।। २. आरणं देवलोकम् ।। ० शुद्धिमति ३-५ ।। ३. कार्यफलम् १० टि० ।। शङ्खवद् दक्षिणावर्तः, समृद्ध्यै भा(र्भा १०) व्यसाविति २.६-१० ।। इति ३-५ ।। + दत्तवांस्तस्य सोत्सवम् ३-५ ।। स्निग्धः ६-१० ।। ४. शङ्खः ३. टि० ।। अ० ६-१० ।। * ०प्तं ९.१० ।। ०न्तमिव २ ।। ४
०ख्या० ५-१० ।। ०० १० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org