________________
श्रीतिलकाचार्यविरचितटीकायुतम् अनित्यतायाः कृतमेव कार्य, विलोक्यते सा नु न दृश्यरूपा । शक्या न केनापि ततो निहन्तुं, शस्त्राधुपायैः शतशोऽपि क्लृप्तैः ।।५१२ ।। उपजातिः संसारकान्तारचरी विशस्त्रा-प्यनित्यता लुब्धकयोषिदेषा । भुक्तौ विहस्तं द्रविणोलुपानां, विश्वैणयूथं सहसा निहन्ति ।।५१३।। उपजाति: अनित्यताकत्रिकया निहत्य, क्षुधाकराल किल कालरक्षः । अस्तोकलोकत्रयघस्मरत्वे-ऽप्याप्नोति तृप्तिं न कदापि चित्रम् ।।५१४ ।। उपजातिः धातुत्रिलोकीतलकच्छभूमि, छिद्राटनी नित्यमनित्यतैत्य । काले विकालेऽपि विनाशयन्ती, रोढुं न शक्या नरदैत्यदेवैः ।।५१५ ।। इन्द्रवज्रा कर्मावली चन्दनपूर्वगोधा, यावन्मनःसद्मनि रंरमीति । अनित्यतैरावतिकानिपात-स्तावद्भवेन्नैव विकर्मणः सः ।।५१६।। . उपजातिः
अनित्यभावनामेवं, भावयन्नपराजितः । प्रसादमाससाद स्वं, निर्विनो भववासतः ।।५१७ ।।
तत्रान्यदा स एवागात्, केवली तस्य पुण्यतः । , दृष्टः कुण्डपुरे योऽभूत्, प्रणतः पर्युपासितः ।।५१८ ।। तं नत्वा धर्ममाकर्ण्य, प्रीतिमत्यास्तनूद्भवम् ।
पद्मं निवेश्य साम्राज्ये, प्रवव्राजापराजितः ।।५१९।। अनुप्रियं प्रीतिमती च राज्ञी, सौ(स)रश्च सोमश्च सहोदरौ तौ । मन्त्री सुमित्रो विमलावबोधः, सर्वेऽपि चारित्रमथ प्रपन्नाः ।।५२० ।। उपजातिः कृत्वा तपांसि प्रसरद् यशांसि, प्राज्यानि सर्वेऽपि विपद्य सद्यः । सामानिका आरणदेवलोके, देवा बभूवुः सुहृदो मिथस्ते ।।५२१।। उपजातिः नेमिप्रभोः पश्चमकः सषष्ठो-ऽपराजितप्रीतिमतीभवोऽयम् ।
निवेद्यते स्माऽनणुविस्मयाढ्यः, संवेगनिदरसानुविद्धः ।।५२२।। उपजातिः । १. धनरूपतृणानां भुक्तौ व्याकुलाम् १० टि० ।। २. व्याकुल २ टि० ।। ३. तृणविशेष २ टि० ।। * ०ल: ६-१०।। . ०क्षाः ४ ।। 0 आ० १ ।। * ०किल घस्मरोऽयं चित्रं न तृप्तिं लभते कदाचित् ८.१० ।। है भोज्यपीहाश्चर्य न तृप्तिं लभते कदापि २, घस्मरोऽयं चित्रं न तृप्तिं लभते कदापि ६.७.९, ।। ४. भक्षणशील १० टि० ।। + तदा प्रीतिमती राज्ञी, सूरसोमौ सहोदरौ । मन्त्री विमलबोधश्च, सर्वेऽपि जगृहुव्रतम् २.६-१० ।।. सौ० १ ।। तत्वा तपांसि प्रचूराणि मृत्वा, सर्वेऽपि सामानिकदेवरूपाः । अथाऽभवन्नारणदेवलोके, परस्परं सौहक्शालिनस्ते २, तत्वा तपांसि मृत्वाथ, सर्वे सामानिकाः सुराः । अभूवन्नारणे कल्पे, मिथः सौहार्दशालिन: ६-१०।। * अयं श्लोकः ६१० प्रतिषु नास्ति ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org