________________
श्रीदशवकालिकसूत्रम् • स गतोऽन्येधुरुधाने-ऽपश्यदिन्द्रमिव श्रिया । नरं शृङ्गारसाराङ्ग, कश्चित् कन्दर्पसुन्दरम् ।।५००।। . दारिद्र्यकोद्रवेयानां, विनिवारणकारणैः । सर्वतः शोभमानं तं, मायूरातपवारणैः ।।५०१।। सवयोभिवृतं मित्रैः, सामानिकसुरैरिव । अप्सरोभिरिव स्त्रीभि-विलसन्तं यथारुचि ।।५०२।। पठ्यमानगुणं भट्टैः, पूर्णाशं ददतं धनम् । वीक्ष्य तादृक्षमप्राक्षीत्, क्ष्माभृत् कोऽयमिति स्वकान् ।।५०३।। अयं समुद्रपालस्य, श्रेष्ठिप्रष्ठस्य नन्दनः । महेभ्योऽनङ्गदेवाह्व-स्ते नृपायेत्यचीकथन ।।५०४ ।। दध्यौ धन्योऽस्मि मद्राज्ये, वणिजोऽपि यदीदृशाः । कल्पद्रुमा इवोदाराः, शंसन्नित्यगमद् गृहे ।।५०५ ।। राजपाट्यां द्वितीयेऽह्नि, गच्छन् राजा निरीक्षत । रसद्विरसवादित्र-ध्वनिदत्तशुचं नृणाम् ।।५०६।। चतुर्भिः पुंभिरुत्पाट्य, नीयमानं बहिः पुरात् । कषायैरिव कोपाद्यै-रात्मानं मर्त्यजन्मतः ।।५०७ ।। हाहाकारपरैः पौरै-रीक्ष्यमाणं सगद्गदैः । शोकविह्वलितस्त्रैणा-नुगतं मृतकं तदा ।।५०८।। . अथापृच्छनिजान् कोऽय-मूचुस्ते देव! तादृशैः ।
यः सायं वीक्षितः सोऽय-मीदृक् राजाथ दध्यिवान् ।।५०९।। दृष्टः कल्ये यः परिक्रीडमानः, सार्द्ध स्निग्धैः स्वस्य मित्रैः कलत्रैः । सोऽयं शोकानियतेऽद्य श्मशाने, ही संसारस्येन्द्रजालप्रपञ्चः ।।५१० ।। शालिनी अनित्यतेयं कपिकामिनीव, विश्वत्रयायुः फललुम्बिमेताम् । पक्कामऽपक्कामपि निर्विचार-माच्छिद्य गच्छत्यतिचञ्चलत्वात् ।।५११।। उपजाति • अनङ्गदेवं शृङ्गारसाराङ्गं श्रेष्ठिनः सुतम् १ टिप्पण्या २.६-१० ।। १. नागानाम् २ टि०, सर्पाणाम् १० टि० ।। . च म० ६-१० ।। ००भिः समं १ टिप्पण्याम्, ६-१० ।। of० १ ।। १०मिह० ६-१० ।। + ०त् १.२.५.८।। .०त्मा मानुष०.१.२.५-१० ।। ० ०शा १ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org