________________
श्रीदशवैकालिकसूत्रम्
प्रीतिमत्या समं प्रीत्या, विलसन्नपराजितः ।
वेदयन् सुखसर्वस्वं, तत्रास्ते दिवि देववत् ।।४७६।। जितशत्रोरमात्यश्च, निजां रूपवतीं सुताम् ।
ददौ विमलबोधाय, सोऽपि खेलंस्तयाऽस्त्यमा ।।४७७।। अन्येद्युरागमद्दूत - स्तत्र श्रीहरिणन्दिनः । तं निरीक्ष्योपलक्ष्याशु, परिरेभेऽपराजितः । । ४७८ ।। प्रमोदभरमेदस्वी, चिराद् दृष्टात्ममानुषः । पित्रोः कुशलमप्राक्षी-दाख्यद् दूतोऽपि तत्कथाम् ।।४७९।। वपुराकारमात्रेण, केवलं कुशलं तयोः । त्वद्वियोगजखेदेन, शुष्कशोणितमांसयोः ।।४८० ।। भवद्वृत्तं जनश्रुत्या, श्रावं श्रावं च जातुचित् । विकसेते दृशौ भूयो, मुञ्चेतेऽश्रूण्यदर्शनात् ।।४८१।। तदेवं श्रावणो मास-स्त्वन्मातापितृनेत्रयोः । त्वददर्शनदुःखेन, तापाद् ग्रीष्मोऽङ्गचेतसोः ।।४८२ ।। अत्रत्यं च भवद्वृत्तं, श्रुत्वा राज्ञा कुतश्चन । तव शुद्धिविधानार्थं, प्रेषितोऽहमिहागमम् ।।४८३।। मातापितृगतं दुःखं, तद् दूतेन निवेदितम् । कुमारहृदि सङ्कान्त- -मादर्श इव तत्क्षणात् ।।४८४ ।।
अथ स्वसुरमापृच्छ्य, चचालात्मपुरं प्रति ।
.आदाय कमलमालां, तदागात् कोशलेश्वरः ।।४८५।। पुत्रीममृतसेनोऽपि, रत्नामालामुपानयत् ।
राजा भुवनभानुश्च, तदानैषीत् सुताद्वयम् ।।४८६।। आनिन्ये सुप्रभो रम्भां सर्वेऽप्याऽऽगुः प्रबोधिताः ।
।
अभयदानतो मित्रं, सूरकान्तश्च खेचरः ।।४८७।।
* ०प्यखेलत्तया समम् ३-५ ।। समम् १.८, ० स्त्युमा २ ।। १. आलिङ्गति स्म ।। २. कदाचिद् ।। ०म०
६.८-१० ।। ३. आरीसो इति भाषा० ।।
Jain Education International
७७
For Personal & Private Use Only
www.jainelibrary.org