________________
७६
श्रीतिलकाचार्यविरचितटीकायुतम्
अविचार्यैव यद्येषा, भवन्तं वृतवत्यहो ! । तत्किं त्वमपि पठित-मूर्खोऽसि न विवेक्यसि ? || ४६३।। एतावत्सु नरेन्द्रेषु, सत्स्वप्यस्मान्सुदुर्गतः । रङ्कप्रायस्त्वमेकाकी, वाचाटः परिणेष्यसि ।।४६४।। सोऽवदद्यद्यहो ! यूयं मूर्खत्वान्नाऽनया वृताः । ततो मयि किमीर्ष्यावः, स्वस्य दौर्जन्यसूचिका ||४६५॥ अथवा रणकण्डूश्चे-दस्ति वो भुजदण्डयोः । अहं निवर्त्तयिष्ये तां, शस्त्रभेषजयोगतः ।।४६६।। . तस्यैकस्य सहानेकै-स्ततः प्रववृते रणः । वने पञ्चाननस्येव, मत्तद्विरदमण्डलैः ।।४६७।। एकोऽपि राजसूर्वैरि-वाहिनीः सोऽखिला अपि । व्यलोडयन मँहानीर- निधिमन्दरमन्थवत् ।।४६८ ।। प्रावृतन् वैरिणो नंष्टुं, सिंहादिव मृगादयः । प्रदीपतस्तमांसीव, गरुत्मत इवाऽहयः ।।४६९।। विद्युदुक्षिप्तकिरणे - नेभमारुह्य कस्यचित् ।
आरोहान् लोष्टुवत् क्षिप्त्वा, शस्त्रैस्तेषामयुध्यत ।।४७०।। परावर्तितरूपोऽपि, युध्यमानः पराक्रमात् । सोमप्रभनरेन्द्रेणाऽनुमानादुपलक्षितः ।।४७१ ।। हारिणन्दिकुमारोऽयं यथार्थाख्योऽपराजितः । तेनेत्युक्तेऽत्यजन् सङ्ख्यं, सर्वे सख्यमगुर्नृपाः ।।४७२।। युग्मम् मध्यस्थितैर्नृपैः सर्वै-र्जितशत्रुनृपस्ततः ।
चक्रेऽपराजितप्रीति-मत्योः परिणयोत्सवम् ।।४७३।।
जितशत्रुरथो भूपान्, स्वयंवरसमागतान् ।
यथौचित्येन सत्कृत्य, सर्वानपि विसृष्टवान् ।।४७४।। अथ स्वाभाविकं रूपं, प्रकटीकृत्य कृत्यवित् । सर्वानानन्दयामास, तदानीमपराजितः ।।४७५।।
व्याम्येतां ६-१० ।। ५ महाम्भोधिमिव मन्दर० २.६ - १० ।। १. युद्धम् १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org