SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ७५ श्रीदशवैकालिकसूत्रम् अनुकलविगलदविरलमदजलाकुलकपोलस्थलं, अमन्दमन्दरोन्मथ्यमानमहाम्भोधिध्वनिगम्भीरगर्जितं, ऊर्जितप्रभञ्जनप्रेर्यमाणध्वजपटप्रान्तप्रचलकर्णतालं, अनरालस्थूलचलनचतुष्टयप्रतिष्ठितं, अनवरतपरिचलत्प्रबलशुण्डादण्डडोमरं, अनतिनिकटनिषण्णनिरन्तरभयङ्करहुंकारमुखरमहामात्रप्रदीयमानस्थूलकवलकवलनाव्याकुलं, मँदकलमवलोक्य विकल्पयति-किमिदमन्धकारनिकुरुबं मूलकान् कवलयति ? किं वा वारिवाहोयं, बलाकावान् वर्षति गर्जति च, यद्वा बान्धवोऽयं, “राजद्वारे श्मशाने च, यस्तिष्ठति स बान्धवः" इति वचनात् । अथवा योऽयमासन्नमेदिनीपृष्ठप्रतिष्ठादायी पुरुषस्तस्यच्छायेऽयं स्त्यानीभूता इति दूषयति च । नाद्यः पक्षः । अन्धकारस्य सूर्पयुगलप्रस्फोटनाभावात् । नापि द्वितीयः । स्तनयित्रोः स्तम्भचतुष्टयाभावात् । नापि तृतीयः, बन्धोरस्मद्दर्शननिषेधनलगुडभ्रमणासम्भवात् । नापि तुरीयः, न हि नरशिरःशतोद्गरणनिगरणं सम्भवति, छायायास्ततो न किञ्चिदेतदिति । न चैतावता मतङ्गजस्वभावो व्यावर्तते, एवं सर्वज्ञोऽपि न भवद्विकल्पैरपस्यते । सकलप्रमाणप्रतीतस्यापि चास्यापलापे सुखदुःखादेरप्यपलापः प्रसज्येत इति स्थितं । एवं पाञ्चालिकावाग्भिः, प्रीता दध्यौ नृपाङ्गजा । अहो प्रभावः पुंसोऽस्य, यत्कृतैषापि वागिव ।।४५९।। तत्कलाकौशलेनाथ, प्रार्जन्मस्नेहतस्तथा । . सोत्कण्ठा कण्ठपीठेऽस्य, वरमालां न्यधत्त सा ।।४६० ।। कुप्यन्ति स्म नृपास्तस्मै, सर्वे भूचरखेचराः । समनह्यन्त तत्काल-मेव कोपो हि दुर्द्धरः ।।४६१।। ऊंचुस्ते मा वृों याहि, जीव नेयं तवोचिता । 'काकस्य कन्धराबन्धे, चकास्त्येकावली किमु ? ।।४६२।। १. कपोलरेखाभ्यन्तराद् ।। २. रवैयो इति भाषा० ।। ३. प्रचण्डवायुः ।। ४. अकुटिल १० टि० ।। * ०चरण० १० टि० ।। * ०चण्डशु० ६.८-१० ।। ५. भयानकम् १० टि० ।। ६. महावत ।। ० ०शा० ६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। ७. हस्तिनम् १० टि० ।। ८. समूहम् ।। ९. मूला इति भाषा० ।। न्यायात् ९, अयंमूलपाठः ९ टिप्पण्यामपि ।। १०. गाढीभूता ।। ११. सूपडा जेवा बे कानवडे ।। १२. जलधरस्य १० टि० ।। १३. लाठी जेवी सूंढ ।। है नरः २.३ ।। १४. एषा पाञ्चाली अपि वागिव सरस्वतीव कृता ।। + भव० ४ ।। .न्त २।०० २ ।। १५. युद्धार्थं सज्जीभूताः ।। * मृषा ३.४ ।। १६. पाणिग्रहणं मा कुरु ।। १७. आयुष्मान् भव ।। १८. रत्नवती ।। १९. कण्ठे ।। २०. एक शेरो मोतीनो हार ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy