________________
७४ . श्रीतिलकाचार्यविरचितटीकायुतम् युगपद् युष्मान् रसातलं प्रापयत्प्रसर्पति । तत्र यद्यस्मिन् देशे, अस्मिंश्च वर्तमाने काले सर्वज्ञोऽध्यक्षेण न वीक्ष्यत इति भणिष्यथ, तदत्रार्थे सिद्धसाध्यता, अहमप्येवं मन्ये, सम्प्रत्यत्र देशे असत्त्वात् सर्वज्ञो नावलोक्यत इति । अथ सर्वत्र देशे सर्वकालं सर्वज्ञाभावमाविर्भावयन्ति, तन्न । न हि सर्वदेशकालव्यापकं तेषामपि ज्ञानमस्ति येन सर्वदेशे काले च. सर्वज्ञाभावस्तैर्निश्चीयते। अथास्ति सर्वव्यापकं ज्ञानं तर्हि त एव सर्वज्ञाः । सिद्धं न समीहितं, न चैतदस्ति । तस्मात् क्वापि देशे, भूते भविष्यति च काले सर्वज्ञस्य सद्भावात्। तद्गतलोकानां ससमक्ष एव भविष्यति । तथानुमानानुमेयोऽपि भगवान् सर्ववेदी, 'तञ्जेद ज्ञानतारतम्यं क्वचिद् विश्रान्तं तरतमशब्दवाच्यत्वात्, यद्यत्तरतमशब्दवाच्यं तत्तद्विश्रान्तं। यथा महत्परिमाणतारतम्यमाकाशे, लधुपरिमाणतारतम्यं परमाणौ विश्रान्तं च क्वचित् ज्ञानतारतम्यं यत्र च तद्विश्रान्तं स सर्वज्ञः । उक्तं चात्र
मोवहउ कोवि गव्वं, इत्थ जए पण्डिओ अहं चेव । । आसव्वन्नु मईओ, तरतमजोगेण मइविहवा ।।१।। [ ]
पक्षहेतुदृष्टान्तदोषवर्जितं चैतदनुमानं सर्वज्ञसद्भावं साधयत्येव । यदप्युक्तं । आगमादपि न सर्वज्ञः परिज्ञायते, तदपि न सुमनोमनो धिनोति । यतो यस्मिन्नागमेऽनागतकालं यत्र यत्र काले ये ये भावाः यथारूपेण भाविनः कथिताः सन्ति, तत्र तत्र काले ते ते भावाः, तथारूपेण भवन्तः सन्तः तदागमकर्तुः सर्वज्ञतामावेदयन्त्येव । उपमानं तु सर्वज्ञसद्भावावेदकं न सम्भवति, तस्य सर्वोत्तमत्वेन, तदुपमानभूतस्य कस्याप्यभावात्। अर्थापत्तिः पुनः सर्वज्ञसद्भावं प्रादुःकरोति, अविसंवादिवचनो ह्यागमः, सर्ववेदिनं प्रणेतारमन्तरेण न जाघटीति, ततोऽर्थादेव विज्ञायते, तत्प्रणेता सर्वज्ञोऽवश्यमेवाभूदेवेति। ततो न भवत्परिकल्पितैर्गजविकल्पकल्पैर्विकल्पैः सर्वज्ञोऽपह्नोतुं पार्यते ।
तथा हि-कश्चिद् भौतः, कुतर्कमुखरवठरखण्डिककुटुम्बकाऽविकलकोलाहलाकर्णनमात्रौतूलः, कथमपि नृपतिमन्दीरद्वारमुपागतः । प्रथमजलधरनीरन्ध्रधाराधोरणीधौतसमुद्धराञ्जनागिरिशृङ्गसोदरं, सपदि विदलितकुन्दकलिकावदातदन्तमुशैलद्वितयं, * ०थास्ते २ ।। * तं तस्मात् क्वापि ४ ।। १. साध्यः ।। २. पक्षः ।। - इतः ज्ञानतारतम्यं पर्यन्तः पाठः ६. ९ प्रतिषु नास्ति ।। ३. हेतुः ।। ४. व्याप्तिः ।। ५. दृष्टान्तः ।। ६. मा वहतु कोऽपि गर्वम्, इह जगति पण्डितोऽहमेव । आसर्वज्ञं मतेः, तारतम्ययोगेन मतिविभवात् ।। ७. सन्तोषयति ।। ८. सर्वज्ञस्य १० टि० ।। ९ भूताधिकारी १० टि० ।। १०. मन्दमतिः ।। ११. ऋषिकुटुम्बकस्याथवा उपाध्यायस्य १० टि० ।। १२. अव्याकुल ।। १३. उन्मत्तः ।। १४. गाढः ।। १५. साम्बेलु इति भाषा० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org