________________
श्रीदशवैकालिकसूत्रम्
७३
मुग्धजनमनःसदनगतदेवाधिदेवादिपर्युपासनावासनाधनलुण्टकाः, प्रजल्पन्ति जेल्पाका:किं सर्वज्ञः प्रत्यक्षेण साक्षात् क्रियते ? आहोस्विदनुमानेन, उतस्विदागमेन, यद्वोपमानेन, किं वार्थापत्त्येति विकल्पपञ्चतयि विषयपञ्चतयीव त्रिभुवनजनमनांसि क्षोभयन्ती, भवत्याः पुरः प्रगल्भन्ते तैंत्र न तावत् प्रत्यक्षलक्ष्यो भवति सर्वज्ञः। विद्यमान एव हि पदार्थः, प्रत्यक्षलक्ष्यतामाक्षिपति, सर्वज्ञस्तु व्योमारविन्दवदविद्यमान एव, तन्न तेन लक्ष्यते विचक्षणैरपि । नाप्यनुमानेनानुमीयते अनुमानं हि धूमधूमध्वजयोरिव लिङ्गलिङ्गिनोरविनाभावग्रहणे सति प्रवृत्तिमाऽऽतितांसति, न चात्र सर्वज्ञसद्भावसाधने नाविनाभूतं किमपि लिङ्गमुपलभ्यते । ततस्तदप्युदासीनमेव । नाप्यागमेनाऽवगम्यते सर्ववेदी । आगमा हि सर्वेऽपि परस्परविरुद्धाभिधायिनः क्वापि सर्वज्ञः स्थाप्यते, क्वाप्युत्थाप्यते, ततः को नाम प्रमाणीक्रियते ? लन्नागमः सर्वज्ञाभ्युपगमहेतुः । नाप्युपमानं सर्वज्ञसत्तापरिज्ञानं कर्तुमुत्सहते । यतः कथञ्चित् कस्यचिद् दृष्टगोरूपस्य नागरकस्यारण्यानीं गतस्य गवयदर्शने सति खुरककुद्विषाणादिसादृश्योपलम्भात् गौरिवायं गवय इत्युपमानज्ञानमाविर्भवति । न च केनाप्यंशेन सर्वज्ञस्य सादृश्यं कस्यापि दृश्यते, येनोपमानं तत्सत्तामाविर्भावयति । नाप्यर्थापत्तिः सर्वज्ञापत्तिमाविःकरोति । सा ह्येवं सञ्जायते । पीनो देवदत्तो दिवा न भुङ्क्ते इत्युक्ते पीनत्वस्यान्यथानुपपत्या रात्रौ भुङ्ग इति गम्यते, न च सर्वज्ञसत्तामन्तरेण कोप्यर्थो नोपपद्यते, येन सर्वज्ञस्यापि सत्ता समापद्येत । तस्मान्नास्ति सर्वज्ञः । तद्ग्राहकप्रमाणपञ्चकाभावात्। व्योमारविन्दवत् ।
उक्तं च— प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थं, तत्राभावप्रमाणता ।।१।।
इति पराभिमते प्रीतिमत्या राजपुत्र्याभिहिते सर्वानुवादपूर्वकं पाञ्चाली निःप्रपञ्चमपि सप्रपञ्चं तन्निराकरोति ।
इदमनवद्यविद्याविशारदाः सदा विचारचतुराः सर्वात्मनापि विदग्धमतयः प्रलम्पन्ति स्म प्राज्ञाः । परे सर्वज्ञापलापिनः पापिनः, यथा प्रत्यक्षेण तावत् सर्ववेदी न दरीद्दश्यते इति । तदत्रैवं ते परिपृच्छ्यन्ते, किं भवद्भिः सर्वज्ञोऽपहूयते । अत्र देशे, सर्वत्र वा, अस्मिन् काले, सर्वकालं वा इति विकल्पचतुष्टयं कल्पान्तकालक्षुभिताम्भोधिचतुष्कमिव १. वाचालाः १० टि० ।। * इतः उपलभ्यते पर्यन्तः पाठ ६ - ९. प्रतिषु नास्ति ।। २. स्वीकरोति ।। ५ ०ददृष्ट० ४ ।। ं इतः अभावप्रमाणता पर्यन्तः पाठः ६-१० प्रतिषु नास्ति ।। आकाशकुसुमवत् ३.४ ।। है ०दः १।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org