________________
७२ . श्रीतिलकाचार्यविरचितटीकायुतम्
ततः प्रीतिमती प्राह, समस्या पूर्यतामियम् । सिद्धो वर्णसमाम्नाय, इति सा तोमपूरयत् ।।४५०।। सिद्धो वर्णसमाम्नाय-स्तीर्थकृद्गणधारिणाम् । द्वादशाङ्गी प्रकुर्वन्ति, त्रीपदीमप्यवाप्य ये ।।४५१।। क्रियागुप्तमथ प्राह, प्रीता प्रीतिमती पुनः । अचुम्बितेन नव्येन, समस्यार्थेन रञ्जिता ।।४५२।। .. यः पुण्डरीकगणभृत्, कामं जितजगत्त्रयम् । पुराऽतनगुरोस्तस्य, माहात्म्यं केन वर्ण्यते ? ।।४५३।। पाञ्चाल्याह क्रियाऽत्रेय-मऽतनक् त्वदkष्टुभि । भवत्क्रियांतिगुप्तापि, मयौत्र प्रकटीकृता ।।४५४।। विष्णुः शेते क्व ? सम्बोध्या, गौः कथं ? रामदृष्टयः ।। विश्रान्ता विग्रहस्यान्ते, क्व भृत्ये सखि! कथ्यताम् ।।४५५।। अथावोचत पाञ्चाली, वाक्प्रपञ्चविचक्षणा ।। सरस्वत्यच्युतः शेते, बोध्या सरस्वतीति गौः ।।४५६।। विश्रान्ता रामदृग्भृत्ये, सरस्वतिसरस्वति । . सरोवत् सुष्ठ्वतिक्रान्तः, सरस्वान् येन लीलया .।।४५७ ।। सर्वज्ञो देवता नास्ती-त्येवं कैश्चित् प्रलप्यते । तदुक्तं त्वत्पुरो वच्मि, शृणु पाञ्चालि! निश्चला ।।४५८।।
इह केचिदहङ्कारशिखरिशिखरमध्यमध्यारूढाः, सारासारविचारकरणचातुरीव्यामूढाः, कूर्चालसरस्वतीति बिरुदमात्मनः पाठयन्तः, स्वगल्लझल्लरीझात्कारेणाऽविद्यानटीं नाटयन्तः, सकलतार्किकचक्रचक्रवर्तिचूडामणिं मन्यमानाः, सर्वज्ञसत्तां प्रति विप्रतिपद्यमानाः । अतुच्छमात्सार्याद्यऽगुणमत्कुणतल्पकल्पाः, सङ्कल्पितानल्पविकल्पाः, १. पाञ्चाली ।। २. समस्याम् ।। ३. सङ्कोचयामास २ टि० ।। * न त्व० ८-१० ।। . ०नुदृष्टयाः ५, नुदृष्टयः ४ ।। 0 ०भिः ८-१० ।। * ०या च ७ ।। ४. समुद्रे २ टि०, सागर १० टि० ।। ५. ज्ञातव्या २ टि० ।। ६. सर इव-सरोवरवत्, सु-सुष्टु, अति-अतिक्रान्तः, सरस्वति, सरस्वत् समुद्रो येन स सरस्वतिसरस्वान्, तस्मिन् हनुमति-सरस्वतिसरस्वति भृत्ये रामदृग् विश्रान्ता-अयमेवार्थः सरोवत् इत्यादिश्लोकार्द्धन स्पष्टीकृतः ।। ७. श्मश्रुभूषिता कैतवेन वा १० टि० ।। ती बि० ७-१० ।। . ०२० १-३.५-१० ।। ८. खंजरी इति भाषा ।। ९. प्रतिशय्या [-शय्यासमानाः] १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org