________________
श्रीदशवैकालिकसूत्रम्
अत्रान्तरे प्रतीहारी, प्राह प्रीतिमती प्रति । देव्यमून् भूभुजः पश्य, पृच्छां कुरु कलागताम् ।।४४१।। साथ साक्षेपमुवीक्ष्य, सर्वानुद्दिश्य तान्नृपान् । पूर्वपक्षान् विदत्ते स्म, कलासु सकलास्वपि ।।४४२।। चालितस्य तपार्थस्य, न स्थानस्थापने क्षमाः । चित्रस्था इव सर्वेऽपि, मौनभाजोऽभवन्नृपाः ।।४४३।। एकैव सुभटी साभूद्, यया वादरणाङ्गणे । वाग्बाणैस्ताडिता भूपा, न सीत्कारमपि व्यधुः ।।४४४ ।। व्यथितोन्तः कुमारोऽथ, तां विलोक्य जिताऽऽहवाम् । तंत्रावतार्य्य विद्यां स्वां, पाञ्चालीं तामवीवदत् ।।४४५।। किं त्वं दृप्यसि ? राजपुत्रि! नृपशूनिर्जित्य गोपानमून्, ज्ञास्ये ते पेटिमानमद्य यदि मां, निर्जेष्यसि प्रज्ञया । साम्मुख्यं भेज जल्प कुशले!, गीर्वाणवाण्याधुना, स्वाम्यप्येष मम त्वया नरमणि-जिग्ये जितायां मयि ।।४४६।। शार्दूलविक्रीडितम् विस्मिता सापि पाञ्चाली, वदतीति कुतूहलात् । बभूव सम्मुखी चन्द्र-मुखी तां प्रत्युवाच च ।।४४७ ।। किं पाञ्चालि! करोषि गर्वमतुलं, सोचे न गर्वोऽसकौ, गर्वः सर्वकलालयः स कथितः, शक्ते परं यद्वचः । यत्किञ्चित् पुनरुच्यतेऽद्भुतमते!, शक्तिप्रमाणेन तत् । त्वं जानीहि पुनः स्वरूपवचनं, विज्ञे! मदादेशतः ।।४४८ ।। शार्दूलविक्रीडितम् किं चसमस्या दासीव, प्रभवति मदादेशकरणे, क्रियागुप्तं गुप्तं, सपदि तनुते मित्रमिव मे ।। ममाख्याति प्रश्नो-त्तरमपि पुनश्चोत्तरमरम्,
प्रमाणं वश्यं मे, वद तदिह यत्तेऽभिरुचितम् ।।४४९।। शिखरिणी * ततश्च ते कलास्थानो-त्थापनस्थापनेऽक्षमाः ६-१० , अयं मूलपाठ: १० टिप्पण्यामपि ।। १. पाञ्चाल्याम् ।। २. पटुताम् ।। ३. आगच्छ ।। . ०ख० ४ पाठां० ।। 0 ०ये २.५ ।। ४. शीघ्रम् ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org