SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ७० श्रीतिलकाचार्यविरचितटीकायुतम् भुजिष्यादिश्यमानाध्वा, विधृतातपवारणा । आगमद्दिव्यशृङ्गारा, मूर्त्यन्तरमिव श्रियः ।।४३१।। आगच्छन्ती च तां सर्वे, राजानो मनसाभ्यगुः । शून्या इव ततस्तन्वा, चक्रिरे विक्रियाः पुनः ।।४३२।। भालं निभालयति कश्चन पार्श्वरत्नस्तम्भेऽक्षराणि लिखितानि किमत्र धात्रा । तिष्ठन्ति यैः प्रणयिनी भवतीयमणनेत्रातिमात्रसुभगा मम दिव्यरूपा ।।४३३।। वसन्ततिलका पुरः कराभ्यां प्रवितत्य धृत्वा, हैमं तदा कैतकपत्रमेकः । ऊचे करिष्ये तव पट्टबन्धं, पत्नीषु सर्वास्वपि देव्युपैहि ।।४३४ ।। उपजातिः वक्षःस्थले मौक्तिकतारहार-मितस्ततश्चालयति स्म कश्चित् । निवासहेतोर्नववल्लभायाः, स्थानं प्रधानं किल कर्तुकामः ।।४३५ ।। उपजातिः अनर्तयद् भापयितुं विरिञ्चिं, कश्चित् सुवर्णच्छुरिकां कराग्रे । न चेदिमां मेलयसे मम त्वं, बालां तदेषैव तवानुशास्त्री ।।४३६।। उपजातिः रराज राजा स्फुरदोष्ठयुग्मः, कश्चित् तदा निश्चलकाययष्टिः । वशे विधातुं क्षितिपालपुत्री, जञ्चप्यतेऽसौ किल वश्यमन्त्रम् ।।४३७ ।। उपजातिः अमानुषं मण्डपमोत्तपाणि-ग्रहां मृगाक्षी हृदि मन्यमानः । ऊचे स्मरावेशवशेन कश्चि-दुच्चैःस्वरं देवि! गृहाण हारम् ।।४३८ ।। उपजातिः विनिर्मितोऽहं किमु कश्चिदन्यो-ऽमुष्याः पतिः प्रष्टुमिति प्रेजेशम् ।। साक्षेपचक्षुः पुरतः करस्थं, निरीक्षतेऽब्नं क्षितिभृत्किलैकः ।।४३९ ।। उपजातिः त्वत्तोऽपरां चेत् मनसापि दध्यां, दिव्यं तदत्रास्तु किलेति जल्पन् । पाणिद्वये चम्पकपष्पगच्छ-छलेन फालं कलयत्यथाऽन्यः ।।४४०।। उपजातिः १. दासी २ टि०, दास्या १० टि० ।। २. शरीरेण १० टि० ।। * न ९ , च ६-८.१० ।। । ०मत्र ६-१० ।। । श० ६-९ ।। हेमम् २ , हिमम् ६-१० ।। ३. ब्रह्माणम् ।। ३ ०क्षु० २ ।। ४. अनुशासनक: ।। + जपत्यसौ मन्त्रमिवादरेण १.३.४ ।। ५. परिणीतां स्त्रियम् ।। . च तां स्वे १.३.४ , अयं मूलपाठः १ टिप्पण्यामपि ।। ६. ब्रह्माणम् ।। ७. शफथम् १० टि० ।। ८. दिव्यपरिक्षाभेदे १० टि० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy