________________
श्रीदशवैकालिकसूत्रम्
अथ स्वयंवरस्यार्थे, जितशत्रुर्महीपतिः । शिखोल्लिखितधिष्ण्योधं, कारयामास मण्डपम् ।।४२० ।।
१
रोजपट्टमयैश्चैन्द्रोदयैनैव्याभ्रवानिव ।
स्थिरसौदामिनीदण्ड, इव स्तम्भैर्हिरण्मयैः । । ४२१ । ।
मुक्तावचूलैर्निपत-नीरधार इवायतैः । चञ्चच्चामरराजीभि-र्बलाकावलिमानिव ।।४२२।। विजृम्भितेन्द्रधन्वेव, स्फुरद्रत्नौघकान्तिभिः ।
नवोद्भिन्नाङ्कर इव, भुवा नीलाश्मबद्धया ।।४२३ ।।
निनदद्भिश्च वादित्रैः, कुर्वाण इव गर्जितम् ।
विश्वसन्तापहारी यः प्रावृट्काल इवाबभौ ।।४२४ ।। चतुर्भिः कलापकम् मञ्चास्तत्र व्यरच्यन्त, पञ्चवर्णमणीमया ।
दर्शयन्तीव ये नॄणां, भुव्यपि स्वर्गवर्णिकाम् ।।४२५।।
अथ ज्योतिर्विदादिष्टे, जितशत्रुः शुभेऽहनि । मण्डपान्तरुदग्मञ्च-मध्यास्त निधिनाथवत् ।।४२६।। अथोपावीविशद् भूपा-नानीय निखिलानपि । अपाचीनेषु मश्चेषु, साक्षादिव सुरेश्वरान् ।।४२७।। गुटिकायाः प्रयोगेण, सानुगोऽप्यपराजितः । परावृत्य निजं रूपं, मण्डपं तमशिश्रियत् ।।४२८।। कस्याश्चिन्मञ्चपाञ्चाल्या, मौलौ दत्तकराम्बुजः । मन्यमानः पशुप्रायान्, कुमारस्तन्नृपान् स्थितः ।।४२९।। पितुरादेशतस्तत्र, पुत्री प्रीतिमती ततः । निजधात्रीकरन्यस्त-प्रत्यग्रवरमालिका ।।४३० ।।
१. नक्षत्रम् २.१०. टि०, मण्डपौन्नत्येन तदग्रभागस्पृष्टनक्षत्रसमूहम् ।। ०क्ल्यैवं ६.७.१०, ० ष्ण्येव ९ ।। २. मणिभेदे [कृष्णमणिः] १० टि० ।। ३. चंदरवा इति भाषा ।। वर्ष्याभ्र० ६ १०, अयं मूलपाठः १०. टिप्पण्यामपि । । ४. लम्बायमानमुक्ताझुम्बकैः ९ टि०, ध्वजाधोबद्धैः १०. टि० ।। ० ०स्फाररत्नौ० ६-१० ।। ५. मण्डपः ।। ६. विशिष्टवस्तु ।। ७. कुबेर १० टि० ।। ८. दक्षिणदिशावर्तिषु ।।
कुमारोऽस्थित तन्नृपान् २.५-७.९.१० ।।
०वरप्रव० ६-१० ।
Jain Education International
६९
For Personal & Private Use Only
www.jainelibrary.org