________________
श्रीतिलकाचार्यविरचितटीकायुतम्
पुरः कलाविचारेऽस्याः, सकला अपि निः कलाः । " ततोऽप्रच्छि नृपेणासौ, वत्से ! कीदृक् वरोऽस्तु ते ॥ ४०९ ।। कलासु विजयी यो मे, स एवास्तु पतिः पितः ! । राज्ञेति स्वीकृते तस्याः, प्रतिज्ञापि प्रथामगात् ।।४१०।। आजूहवत् ततो राजा, समन्तादपि रोजकम् । प्रीतः प्रीतिमतीहेतोः, स्वयंवरविधित्सया ।।४११ ।। जैन्यावासानिवावासान, भूपतिः परितः पुरम् । अत्यन्तविपुलाभोगान्, कारयामास तत्कृते ।।४१२।। हिमालयकृतस्पर्द्धाः, शालितन्दुलराशयः । सुमेरोरिव शृङ्गौघाः, स्तूपाः सूपस्य चोन्नताः ।।४१३।। महाहृदा इवास्ताघाः, प्राज्यतैलाज्यकुम्भिकाः । अमृतस्येव कुण्डानि, जलस्थानान्यनेकशः ।।४१४। तृणपूलकसङ्घाता, यैवसस्य च राशयः ।
सूर्याश्वाहार्यमूर्द्धानो, मधुस्वादाः सहस्रशः ।।४१५।। खादनाय मैयुष्टादे- रावासेषु खलेष्विव ।
राशयस्तेषु सर्वेषु, स्थाप्यन्ते स्म महीभुजा ।।४१६ ।। चतुर्भिः कलापकम् तत्सौभाग्यगुणाकृष्टा, भूचराः खेचरा नृपाः ।
एयुर्न हरिणन्दी तु, स्वपुत्रविरहातुरः ।। ४१७ ।। राजावासेषु तांस्तेषु, स्थापिताशेषवस्तुषु । आयातान् भूपतीन् सर्वान्, सगौरवमतिष्ठिपत् ।।४१८ ।। तत्रापराजितोऽप्यागात्, परिभ्राम्यन्नितस्ततः ।
सार्द्धं विमलबोधेन, बाह्येनाभ्यन्तरेण च । । ४१९ ।।
१. जनाः इति शेष० ।। * इदं श्लोकार्द्धम् ९ प्रतौ नास्ति ।। इतः प्रीतः ' पर्यन्तं पाठः ७ प्रतौ नास्ति ।। २. राज्ञां समूहः ९ टि० ।। ०तिः स्वयंवर १ ।। ३. जन्नीवासीयोग्यान् आवासान् भूपतिः पुरं परितः समन्तात् कर्तुं लग्नः ७ टि० ।। ०म० ६-१० ।। सुमो० १ ।। ४. व्यञ्जनस्य ९ टि० ।। + व्व श्लाध्याः ४.६.८-१०. ।। ५. सूर्याश्वैरेव भोज्य उपरितनो भागो येषां ते ।। ६. वनोद्भवः
11
०स्व० ६-१०. ।। Û ०ज० ४.६ मुद्गः १० टि० ।। * ०गु० ६.९ ।।
६८
Jain Education International
·
अथा० २.६-१० ।। ४ ते तेषु २.५-१० ।।
For Personal & Private Use Only
www.jainelibrary.org