________________
श्रीदशवैकालिकसूत्रम् • इतश्चात्मर्द्धिनिर्धत-सुरासुरपुरद्वयम् ।
आस्ते कृतजनानन्दं, जनानन्दपुरं पुरम् ।।३९७ ।। यात्रोच्चैर्जिनयैत्यानां, बभुः कुम्भा हिरण्मयाः । खनित्वाधो विमानानां, स्वग्यैरिव निधीकृताः ।।३९८ ।। चन्द्रशालाङ्गणप्राप्तं, यत्र चन्द्रं कुतूहलात् । आरोहन्ति क्षणं डिम्भा-श्चलन्तीगब्दिकामिव ।।३९९।। जितशत्रुर्नृपस्तत्र, यद्यशश्छत्रमद्भुतम् ।। विस्तृतं निखिले व्योम्नि, बद्धमप्युज्वलैर्गुणैः ।।४०० ।। यदीयाः शत्रवोऽभूवन्, शरण्याः समराङ्गणे । यस्माद्भयस्य त्रस्तस्य, नश्यतः शरणार्थिनः ।।४०१।। विपक्षैनिजशीर्षाणां, रक्षादक्षरधार्यत । यदाज्ञैव शिरस्त्राणं, स्फुरद्वज्रमयं रणे ।।४०२।। तद्राज्ञी धारिणी यस्याः, पट्टबन्धः शिरस्यभात् । नरासुरसुरण-जिगीषोर्वीरपट्टवत् ।।४०३।। हित्वा रत्नवतीजीवः, स्वर्ग तत्कुक्षीमाययौ । न श्राद्धानां नै साधूनां, तत्राप्यन्ते व्रतानि यत् ।।४०४।। दिनेषु परिपूर्णेषु, वर्तमाने शुभेऽहनि । अजायंत महादेव्याः, सुता सर्वजनस्तुता ।।४०५।। अतिप्रीतिकृते साभूत्, विदधे भूभृता ततः । अस्याः प्रीतिमतीत्याख्या, स्वरसज्ञेव सान्वया ।।४०६।। वर्धते स्माथ सा बाला, बालादित्यसमप्रभा । मुमुक्षुमानसाराम-भूमिजातेव भावना ।४०७।। तां कला: कलयामासुः, कमली कमलिनीवत् ।
क्रमेण यौवनं प्राप, रूपभूपस्य पत्तनम् ।।४०८।। * चञ्चत् १.१० टि० ।। १. देवैः १० टि० ।। २. अगासी इति भाषा० ।। न्ती २ ।। 0 गद्दिका० ५-७.९.१०, ।। ३. गादी इति भाषा० ।। ४. समराङ्गणे यस्मात् त्रस्तस्य नश्यतः शरणार्थिनः भयस्य शरण्याः यदीया शत्रवोऽभूवन्-इत्यन्वयः ।। ५. स्त्रीसमूह ।। अयं श्लोकः १० प्रतौ नास्ति ।। के यतीनां च ५ ।। + परिपूर्णेषु दिवसेषु २.६-१०. ।। . प्रजाभर्तुः २.६-१० ।। ३०लां कलनीतिवत् २.५-१०, ०लाः कलनीतिवत् ३.४ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org