________________
६६
श्रीतिलकाचार्यविरचितटीकायुतम् राजोचे मम मित्रस्य, पुत्रस्त्वं स्वजनोऽस्यतः । गौरवेणाथ पुत्री स्वां, रम्भां तेन व्यवाहयत् ।।३८५।। सुरेश्वर इव स्वैरं, रममाणः स रम्भया । वासरान् कत्यपि स्थित्वा, पूर्ववत्सानुगोऽप्यगात् ।।३८६ ।
प्राप्तः कुण्डपुरे दृष्ट्वा-रामे केवलिनं मुनिम् । हेमपद्मासनासीनं, दिशन्तं धर्ममार्हतम् ।।३८७ ।। सानन्दः सप्रमोदश्च, राजसूमन्त्रिपुत्रयुक् । प्रणम्योपविवेशाग्रे, शुश्रूषुर्देशनां गुरोः ।।३८८ ।। संसारापारकान्तारो-ध्वनीना भव्यदेहिनः । . अर्हच्छासनसच्छाय-रसालतलमाश्रिता ।।३८९।। गात्रेषु पत्रपात्रेषु, स्यूतेष्वायुःशलाकया । स्वकर्मपरिणत्याख्य-योषिता परिवेषितः ।।३९०।। कीर्तिकर्पूरपूरेण, वासितो मनसः प्रियः । भावनादधिमद्धर्म-कर्मशालिकरम्भकः ।।३९१।। तपोमरिचमञ्जो-पदशं सचमत्कृतिः । भुज्यतां पदवीखेद-विच्छेदान्निर्वृतिप्रदः ।।३९२।। विध्वंसकारिणस्तेषां, यावदायान्ति दुर्द्धराः । अनिवय॑न्तकातङ्का, सारमेया इवाभितः ।।३९३।। चतुर्भिकलापकम् श्रुत्वेति पृच्छति स्माथ, भव्याभव्यत्वमात्मनः । राजसूनुर्गुरोः पार्श्वे, ततो गुरुरचीकथत् ।।३९४ ।। जम्बूद्वीपेऽत्र भरते, त्वमतः पञ्चमे भवे । द्वाविंशस्तीर्थकृन्नेमि-र्भावी ते गणभृत्सुहृत् ।।३९५ ।। तदाकर्ण्य प्रमुदितौ, कुरुतो धर्ममद्भुतम् ।
सङ्क्रामति स्म मासान्ते, गुरुरन्यत्र सूर्यवत् ।।३९६।। * भ्रातृजो १.२.५-७.९.१०. ।। १. अस् भुवि ९ टि० ।। २. कन्यकया ९ टि० ।। । ०पुरम् ६.८-१० ।। ३. अध्वगा २ टि० ।। द्रुम० ६-१० ।। ४. ग्रथितेषु ।। ०म्ब० २.५-७.९.१०. ।। ५. व्यञ्जनम् २ टि०, स्वाद इति भाषा० ।। २ ०दे० ५।। ६. गात्राणाम् ।।+ कृतान्तकिङ्कराः सारमेया इव समन्ततः, इति १ टिप्पण्याम्, २.५-१०. ।।...|इत० १ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org