________________
श्रीदशवैकालिकसूत्रम्
अथावां स्वामिनादिष्टौ त्वमिहानेतुमागतौ ।
कुमारः कन्ययोः पाणिं, गृहीष्यत्यागते त्वयि ।।३७३ ।। इत्युक्त्वा मुदितो मन्त्रि- सूनुर्नृपसुतान्तिके । नीतस्तं राजसूर्वीक्ष्य, जँहासांऽशुमिवाम्बुजम् ।।३७४ ।। ते कन्ये परिणिन्याते, कुमारेण शुभेऽहनि ।
कालं कियन्तमप्यस्थात्, तत्र प्राग्वदथेयिवान् ।। ३७५ ।। श्रीमन्दिरपुरे गत्वा, कुमारः सानुगः स्थितः । दिव्यान्मणेः प्रभावेण, पूर्णाशेषमनोरथः । । ३७६ ।। तदन्येद्युः पुरं जज्ञे ऽखिलं कोलाहलाकुलम् । कुमारेणानुगोऽप्रच्छि, लोकात् ज्ञात्वा शशंस सः || ३७७ ।। इह सुप्रभभूपालं, कृपाण्या कोऽप्यहंश्छलात् । स चापुत्रोऽस्ति तल्लोक-स्यार्त्तस्य तुमुलो महान् ।।३७८।। छलप्रहारी पापीयान्, राजघः क्षत्रियाधमः ।
६५
चिन्तयन्निति कारुण्यात्, म्लानोऽभूदपराजितः ।।३७९।। तस्य क्ष्माभृत् प्रहारस्य, भेषजैरप्यरोहतः । राज्ञश्चामरर्धृत्कामलता चष्टे स्म मन्त्रिणः ।। ३८०।। अस्ति सिद्धः पुमानैत्र, सानुगश्चिन्तितार्थभाक् ।
महाप्रभावः स किञ्चिन्, मन्ये ज्ञास्यति भेषजम् ।।३८१।। ततोऽभ्यर्ध्य कुमारं तं मन्त्री राजान्तिकेऽनयत् । कुमारोऽपि प्रहारातिं वीक्ष्य राज्ञः कृपाभरात् ।। ३८२ ।। मित्रान्मणिं गृहीत्वाशु, तत्क्षालनजलं नृपम् । अपीप्यत् तज्जलैर्घष्ट्वा, मूलिकामलिपद् व्रणम् ।।३८३ । । युग्मम् भूपस्तदैवसज्जोऽभूत् कुमारं पृष्टवानथ ।
किं वः स्वरूपं मित्रेणा चख्ये तन्मूलतोऽखिलम् ||३८४ ।।
जहासाब्जमिवांशुना २.५-१० ।। १. सूर्यम् ।। ५ ० न्येऽथ ५-९ ।। २. हेत्वर्थे पञ्जमीति ध्येयम् ।। ३. हतवान् ९ टि०, ममार १० टि० ।। ४. कोलाहलः ९ टि० ।। ० ०रम् २.५.८, ०२० ६.७.९.१०. ।। ५. नही रुंझाता इति भाषा ।। ६. चामरधारिणी ९ टि० ।। ०२० २.५. ।। है ०णम् ४.५, ०तः ६ ।। + ०नेव ६-१०. ।। ० ६.८-१० ।। ०पमूचेऽथ सखा २, ०पं मित्रोऽथाचख्यौ ५-७.९.१०, ०पं मित्रोऽप्यथा चख्यौ ८. ।।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org