________________
६४
श्रीतिलकाचार्यविरचितटीकायुतम्
आदाय दूरतोऽप्यम्बु, मन्त्रिसूर्यावदागमत् । तावच्छ्रुततरोर्मूलं-मकुमारं निरैक्षत ।। ३६२ ।। दध्यौ किं न स चूतोऽयं!, भ्रान्त्यान्यत्रास्मिँ वागमम् । दिग्मोहो मेऽथवा जातः, कुमारः किं न दृश्यते ? | | ३६३ ।। ततस्तत्र कुमारार्थं, सकलेऽपि वने भ्रमत् I क्वाप्यपश्यन् कुमारं च, मूर्च्छया पतितः क्षितौ ।। ३६४ ।। ट्यैलापील्लब्धसञ्ज्ञश्च, हा! रत्नं हस्ततो गतम् ।
ग्रामारामाद्यथासन्नं, भ्रामं भ्राममवीक्ष्य तम् ।।३६५।। निरानन्दोऽगमन्नन्दिपुरं सचिवनन्दनः । तावद्विद्याधरद्वैतं, तमुपेत्याब्रवीदिति । । ३६६ ।। युग्मम् वनेऽत्र भुवनभानु-विद्याधरनरेश्वरः । कृत्वा प्रसादमस्ते
स्म, दिवीव दिविषत्पतिः ।।३६७ ।।
तस्य द्वे स्तः कमलिनी-कुमुदिन्यो तनूद्भवे ।
तयोश्च ज्ञानिना ख्यातो वरोऽस्ति हरिणन्दिसूः । । ३६८ ।।
,
तमोवां द्रष्टुमायावः, स्वाम्यादेशात् तरोस्तले । कुमरोऽदर्शि यतोऽभू-स्त्वं पुनः पयसे तदा ।।३६९।। आवां कुमारमादाया-नयाव स्वामिनोऽन्तिके । तेनातिप्रतिपत्यासौ, कुमारोऽध्यास्यतासने ।। ३७० ।। दुहित्रोश्च विवाहार्थं, प्रार्थितः पार्थिवेन सः ।
अनूचाने कुमारे तु, सुहृद्संयोगचिन्तया ।।३७१।। विद्यां विद्याधिपोऽप्राक्षीत्, कथयामास तस्य सा ।
प्राणप्रियस्य सुहृदो, वियोगार्त्या न वक्ष्यसि ।।३७२।। युग्मम् * ०ले न कुमारं ४, ०ले स कुमारं ५, ०ले तं कुमारं ८ ।। ० ०स्म्युपागमम् १.३.४ ।। ०र्थी ५-१० ।। व्यालपी० ६-१०, व्यलप्य० ५ ।। १. विललाप ९, टि० ।। २. विद्याधरयुग्मम् ९ टि० ।। ३. उपेत्य प्राप्य इति अग्रे वक्ष्यमाणम् ९ टि० ।। + ०मस्ति २.५ ९ ।। ४ इन्द्रः ९ टि० ।। ०च पुत्रिके २.५-१० ।। ५. द्वौ ९ टि० ।। गतो ६-१० ।। हत्वा कुमारमावां चा २.६-१० ।। ०वः २.५.६.९ ।। ६. उपवेशित ९ टि० ।। इतः २.५-१०, प्रतिषु श्लोकद्वयस्थाने एतादृशः श्लोको वर्तते यथा - कुमारस्त्वद्वियोगार्तो, ध्यायंस्त्वां नोत्तरं ददौ । स्वामिनः पुनरादेशात्, त्वामिहानेतुमागतौ ।।
०वि० १.३ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org