________________
श्रीदशवैकालिकसूत्रम् विनापराजितं मेऽङ्गे, न लगत्यपरोऽग्नितः । ततः श्रीषेणपुत्रोऽहं, सुरकान्त इमां क्रुधा ।।३५१।। हत्वाँनीयात्र वैच्मि स्म, विकोशासिः कृतान्तवत् । खण्डकृत्य क्षिपन्नग्नौ, तत्सन्धां पूरयामि ते ।।३५२।। युग्मम् तावदेषा त्वयांगत्या-कृष्टा कालाननादिव ।। कुमार! स्वस्वरूपाख्या-सुधया पूरय श्रुतीः ।।३५३।। मन्त्रिपुत्रः कुमारस्य, सर्वमाख्यत् कुलादिकम् । मुमुदे खेचरो रत्नमाला तु मुमुदेतमाम् ।।३५४ ।। कीर्तिमत्यमृतसेना-वनुप्रचलितौ ततः । पितरौ रत्नमालाया-स्तत्रैवाजग्मतुस्तदा ।।३५५।। आख्यत् पृष्टो मन्त्रिपुत्र-स्तं वृत्तान्तं तयोरपि । ततस्तदैव तत्रैव, ताभ्यां दत्तां प्रमोदतः ।।३५६।। रत्नमालां रत्नमाला-मिवोदूहेऽपराजितः । अदापयत् सूरकान्ता-याऽपेकर्तेऽपि चाभयम् ।।३५७।। युग्मम् सूराकान्तो मन्त्रिसूनो-स्ते दिव्ये मणिमूलिके । आर्पयदै गुटिकी वेष-परावृत्तिप्रदास्तथा ।।३५८ ।। निजपुत्रीयमानेया, सत्वरं मम वाचिकात् । इत्युक्त्वा श्वशुरौ प्रेष्य, कुमारः सानुगोऽचलत् ।।३५९।। श्वशुरौ सहपुत्रीको, सूरकान्तश्च खेचरः । अपराजितवृत्तानि, शंसन्तः स्वपुरं ययुः ।।३६० ।।
गच्छन्नग्रे कुमारोऽथ, कान्तारेऽभूत् तृषातुरः ।
अधश्चूतमुपोविक्षत्, मन्त्रिसूः पयसे ययौ ।।३६१।। १. गतियुगलकमेव ९ टि० ।। २. सूरकान्तनामा ९ टि० ।। ३. रत्नमालाम् ९ टि० ।। ४. अन्यस्मिन् समये ९ टि० ।। ५. कथयामि स्म ९ टि० ।। ६. आकृष्टखड्ग: ९ टि० ।। ७. यमवत् ९ टि० ।। ८. तां प्रतिज्ञाम् ९ टि० II०या कन्या० ६-१० ।। ९. कालमुखात् ९ टि० ।। . ०ती ५-९. ।। १०. श्रीषेणपुत्रः सूरकान्तस्य ९ टि० ।। तस्याप० २.५ ।। ११. अपराधिने अपहारकारि ९ टि० ।। * °न् गु० ६-८ ।। ३ ०का ७-१० ।।+ ०दां तथा ७.९.१०, ०दा तथा ६ ।। .न्तौ १.२.५-१० ।। १२. उपविष्ट: ९ टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org