________________
६० . श्रीतिलकाचार्यविरचितटीकायुतम्
अतीव गौरवेणाथ, विधायातिथ्यमद्भुतम् । कन्यां कमलमालाख्यां, तस्य स्वां प्राभृतेऽकरोत् ।।३१७ ।। कियन्त्यपि दिनान्यस्थात्, तत्र कोशलवेश्मनि । नव्योढया तया सार्द्धं, सौदामिन्येव नीरदः ।।३१८ ।।
अथैकदा समित्रोऽपि, कुमारो निर्ययौ निशि । अनाख्यायैव कस्यापि, कौतुकाकृष्यमाणवत् ।।३१९ ।। मध्यरात्रे व्रजन्मार्गे, कालिकायतनान्तिके । करुणं रुदितध्वानं, शुश्राव श्रुतिदुःसहम् ।।३२० ।। दध्यौ स्त्रियो ध्वनिरयं, कृपयोत्साहितस्ततः । तत्र शब्दानुसारेण, जगामाक्षामविक्रमः ।।३२१।। रुदन्ती कन्यकामेका-मुपज्वलनकुण्डकम् । पुमांसं चातिनिस्त्रिंशं, नित्रिंशकरमैक्षते ।।३२२।। व्याजहार कुमारः स्त्रीं, मा भैषीस्त्वमितः शुभे ! । पुमांसं चाक्षिपत् पाप!, धिग् धिक् ते पौरुषं स्त्रियाम् ।।३२३।। ततः कुलकलंकैनां, मुश्च प्रहर मां प्रति । श्लाध्यः परिणमन् कुम्भी, भूधरे न तु पङ्कजे ।।३२४ ।। श्रुत्वा तत् सोऽपि सामर्षस्त्यक्त्वा तां हरिवन्मृगीम् । कुमारकुञ्जरं दृष्ट्वा, हृष्टोऽधाविष्ट तं प्रति ।।३२५।। पौलस्त्यमिव काकुस्थ-स्तं कुमारोऽपि खेचरम् । अभ्यमित्रीणमालोक्य, मुमुदे रणलम्पटः ।।३२६।। खेचरोऽप्यथ तं स्माह, वीरस्त्वं कोऽप्यवातरः ।
ओजायितमिदं यन्न, कस्याप्यन्यस्य दृश्यते ।।३२७ ।। *०म० २ ।। १. कालिकामठान्तिके समीपे ९ टि० ।। • स्त्रैणो० इति २.५-१० ।। २. अमितबल: ९. टि० ।। ३. अतिनिर्दयम् ।। ४. खड्गकर २ टि० ।। ५. पश्यति स्म ९ टि० ।। ६. अवादीत् ९ टि० ।। - यि २.५. ।। * ०केमां इति ६-१० पाठां ।। सरोरुहे इति १.३.४ पाठां ।। + मन्यो० ८ ।।.धृ० इति ९ ।। ७. निर्लजः ९ टि० ।। ८. धृष्टखेचरः ९ टि० ।। ९. रावणः १० टि० ।। १०. सूर्यवंशी राजा १० टि० ।। उ० ५-९. ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org