________________
श्रीदशवैकालिकसूत्रम् चलितश्च रणायासौ, जिताश्च परिपन्थिनः । नश्यतां खेटनायासि-र्यष्टिवद्यस्य केवलम् ।।३०७।। अमी मयापि दुःसाध्या-स्त्वया प्रेष्याः सुरालये । प्रेषयल्लेखयित्वेति, किल कालोऽसिपत्रिकम् ।।३०८।। तदेतद्वाचयन्नेष, पुष्कराक्षरमालिकम् । खङ्गदण्डकरस्तत्र, रराज युधि राजसूः ।।३०९ ।। युग्मम्
अत्रान्तरे दृष्टपूर्वी, कुमारं कोऽपि मागधः । पपाठ भुजमुत्तम्भ्य, गम्भीरोदात्तया गिरा ।।३१० ।। कोऽसौ वीरावतारः, समरभररसः, खोऽनैलो वीं पुँलो वा, किं वा शक्तेः कुमारः, किमु बलजलधिः सूद्रकावीर एषः । इत्येवं यो विकल्पान्, जनयति जगती-मण्डले पण्डितानाम्, सोऽयं दोर्दण्डचण्डो, जयतु जयमना हारिणन्दिः कुमारः ।।३११ ।। स्रग्धरा मूर्त रसं वीरमेव, नन्दनं हरिणन्दिनः । कल्पान्ताब्धिमिवायान्तं, क एनं स्खलयिष्यति ।।३१२।। मन्त्र्यप्यूचे तदाकर्ण्य, देवायं हरिणन्दिसूः । जग्मुषा राजकार्येण, तत्रालोकि मयापि हि ।।३१३।।
ततः समरसंरम्भ-मत्यजत्कोशलेश्वरः । युद्ध निषेध्य मत्तेभा-दुत्तीर्य सुहृदः सुतम् ।।३१४ ।। चिकीर्षुरिव देहैक्यं, स्नेहाद् गाढं तमाश्लिषत् । कुमारोऽप्यौचितीचञ्चु-विनीतः प्राणमन्नृपम् ।।३१५ ।। युग्मम् अथाधिरोप्य स्वकरि-स्कन्धे सौधे निजेऽनयत् ।
विसर्च्य तस्करं मन्त्रि-पुत्रोऽप्यानायि भूभुजा ।।३१६।। * कालः कङ्कासिपत्रकम् ६-१० ।। १. दृष्टः पूर्वं कुमारो येन ९. टि० ।। २. ऊ/कृत्य ९. टि० ।। . ०तभ्य इति १ ।। ३. नामा २ टि०, व्यक्तिविशेषः ।। - को० ५, खे० ६,।। ०नि० २ ।। ३ बा० २ ।। ४. नामा २ टि०, व्यक्तिविशेषः ।। + ख० ५ ।। ५. तेन वित्तश्चञ्चुप्चणपो प्रत्ययौ भवतः (पाणिनीयसूत्र-५-२-२६) ९ टि० ।। . अथारोप्य स्वकरिणः ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org