________________
५८
श्रीतिलकाचार्यविरचितटीकायुतम् एवमस्विति विमलबोधोऽपि प्रत्यपद्यत । युज्यते सेवकानां हि, स्वामिचित्तानुवर्तनम् ।।२९७ ।। एवं वार्तयतोरागाद्, रक्ष रक्षेति वाक्पुमान् । कुमारोऽपि शरण्यस्तै, मा भैषीरित्यभाषत ।।२९८ ।। तमाकृष्टासयो हन्तु-मोरक्षास्तावदापतन् । ऊंचु स्तेनं विमुञ्चेतां, पान्थौ ! हन्मोऽपराधिनम् ।।२९९।। अपराध्यपि राजन्यै-स्त्रातव्यः शरणागतः । प्रख्यातः क्षात्रधर्मोऽयं, कुमारः स्माह तानिति ।।३०० ।। प्रहन्तुमारभन्ते स्म, ते व्यालमिव द१राः । कुमारो मारयामास, तान् मृगानिव केशरी ।।३०१।। तज्ज्ञात्वा तत्प्रभुः प्रेषीत्, तद्वधैषी पुनर्बलम् । चण्डानिलो वनमिवा-भनक् तदपि राजसूः ।।३०२।। कोशलेशोऽथ सन्नाह्या-भ्यगात् कुलिशपाणिवत् ।। . न्यस्यामात्यान्तिके चौरं, चलत्कोशमिवावितुम् ।।३०३।। कुमारौजाः कुमारोऽभूद्, भूपतेरपि सन्मुखः । शिशुरप्यसहायोऽपि, हॉस्तिकस्येव केशरी ।।३०४।। युग्मम् करवाल: करे यस्य करालव्यालवद् बभौ । वैरिप्राणानिलान् यातुं, निर्गतः कोशकोटरात् ।।३०५ ।। खड्गव्याजात् कुमारेण, रणे प्रविशताऽपि हि । .
छित्वेव वैरिवीरश्री-वेणीदण्ड इवाददे ।।३०६।। १. वार्ता कुर्वाणयोः ९ टि० ।। * ०स्तत्र २.६-९ ।। २. स्थाने ९ ।। . ०त्यवक् ५ ।। 0 ०नः ६.८.९ ।। ३. शरणे साधु शरण्य: ९ टि० ।। त्वम् २ ।। ४. निष्कासितखड्गाः ९ टि० ।। है हर्तु० ८ ।। ५. आरक्षकपुमांसः ९ टि० ।। + स्तेनमेनं २.६-१० ।। . ध्यनपराधाः त्रा० १ ,ध्यन पराधी वा त्रा० ३.६-१०, ०धेऽपि ४.५ ।। २ प्रक्षतः ९ ।। ६. रक्षतः सतः ९.टि ० ।।*क्ष १.५-१० ।। . प्रहर्तु० २.५ ।। ७. सर्पम्
॥४ दु० ४-६.१०, ।। ८. भेकाः ।। 9 व्या-वन्मारयामास, कुमारस्तान् मृगानिव । २.५-१० ।। . तं ६.८-१०. ।। ९. तद्वधवाञ्छकः ९ टि० ।। १०. वज्रपाणिवत् ।। ११. कार्तिकेयतेजस्कम् ९ टि० ।। १२. हास्तिनां समुहो हास्तिकम् ९ टि० ।। लं ८ ।। १३. भयङ्करसर्पवत् ।। १४. प्राणपवनान् ९. टि०।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org