SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् युयुधाते ततो द्वौ तौ, महीचरनभश्चरौ । आरण्यकाविव गजौ, मदान्धौ दर्पदुर्द्धरौ ।।३२८ ।। कुमारी चिन्तयामास, युध्यमानौ विलोक्य तौ । भूचरः खेचरो वाऽपि, को जय्यः ? कश्च जेष्यति ? ।।३२९।। इति चिन्ताजुषस्तस्याः, स्वान्तमात्यन्तचञ्चलम् । चक्रे प्रेढोलनक्रीडां, विनापि सुरभिं तदा ।।३३० ।। अयं धारास्थितः क्रामन्त्रीक्ष्यतेऽपि न केनचित् । किं खड्गवेदकर्तासौ ?, किं वाऽस्याणिमसिद्धता ? ।।३३१।। उत्पतन्निपतस्तत्र, घातं वञ्चयितुं द्विषः । तदा जयश्रियः क्रीडा-रत्नकन्दुकवद् बभौ ।।३३२ ।। विनिर्ममेऽसौ निःशेष-धैर्यसौर्यकणैरिव । नभश्चरं यदेकोऽपि, भूमिचार्यप्ययोधयत् ।।३३३।। युध्यमानोऽमुना यत्तु, रणाभिज्ञोऽपि खेचरः । प्राप्यते स्म विलक्षत्वं, कुधन्विक्षिप्तबाणवत् ।।३३४ ।। तन्नूनं जेष्यतेऽनेन, विज्ञानबलशालिना । नभश्चरो नेभःप्रेक्षी, विष्णुना प्रतिविष्णुवत् ।।३३५ ।। अत्रान्तरे युध्यमानौ, द्रष्टुं भूचरखेचरौ । उदयाचलचूलाया-मारुरोह किलार्यमा ।।३३६।। सूर्येण कोपारुणितेन बद्ध्वा, तमांसि सांगांसि पुरस्कृतानि । घनाघनाचिनिजवाजिराजि-व्याजेन नीयन्त इव प्रभाते ।।३३७ ।। उपजातिः भानुर्विलासी स्वकरैर्विघित्सु-दिगङ्गनास्ये किल पत्रवल्लीम् । सभृङ्गपद्मच्छलतो बभार, कस्तूरिकाभाञ्जि सुवृत्तकानि ।।३३८ ।। उपजातिः १. हीचको इति भाषा० ।। २. वसन्तम् २.१० टि० ।। ३. अश्वस्य विशिष्टगतिः, ।। * ध० ४.५ ।। . ०वी० ६.८-१० ।। ४. साधन १० टि० ।। - बाणैरिव ध्रुवम् ६-१० अयं मूलपाठः १० टिप्पण्यामपि ।। ५. यथा निरूपायो जनः आकाशं प्रेक्षते, तथायं खेचरो गगनदी जातः ।। ६. वासुदेवेन यथा प्रतिवासुदेवो जीयते ९ टि० ।। ७. सूर्यः ९ टि० ।। ८. सापराधानि ९ टि० ।। ९. मेघवत्कृष्णकान्तिः ।। १०. अश्वः १० टि० ।। ११. पानबीडा इति भाषा०।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy