________________
श्रीदशवकालिकसूत्रम्
५५ विभूतिभूतिरेवैषा, श्रेयस्तेजोविवर्जिता । अभाग्यवात्यया क्षिप्ता, यात्युड्डीय दिशोदिशम् ।।२६५।। राज्यलक्ष्मीरपि प्राप्त-प्रकर्षा भूरिशोषकृत् । रोजयक्ष्मरुजेवैषा, पुण्यदेहक्षयङ्करी ।।२६६ ।। विचिन्त्येति विषण्णात्मा, राजा रत्नवतीसुतम् । पुरन्दरमिव स्वर्गे, चक्रे राज्ये पुरन्दरम् ।।२६७ ।। पत्नी रत्नवती द्वौ चा-नुजौ चित्रगतिः स्वयम् । व्रतं दमन्धराचार्याद्, गृहीत्वा प्रतिपाल्य च ।।२६८ ।। पादपोपगमाद्यैश्च, पर्यन्ते सुसमाहिताः ।। सर्वे समानधर्माणः, सर्वेऽपि समभावनाः ।।२६९।। परस्परप्रीतिपराः सुरास्ते, सामानिकाः स्वर्गवरे चतुर्थे । सञ्जज्ञिरे चित्रगतिर्नरेन्द्रः, तौ चानुजौ रत्नवती च पत्नी ।।२७० ।। उपजातिः वंशे यदूनां भुवनावतंसे, भविष्यतो नेमिजिनेश्वरस्य । उक्तौ भवावत्र तृतीयतुर्यो, प्रारभ्यते पञ्चमकोऽधुना तु ।।२७१।। उपजातिः
स्वर्गेणाप्टेंकृतस्पर्द्ध, विदेहार्द्धऽत्र पश्चिमे । नित्यं तीर्थेशसञ्चार-पादस्पर्शपवित्रिते ।।२७२।। विचित्रपैंत्रः सन्मित्रा-नन्दिश्रीकोसपेशलः । पद्मः पद्म इव ख्यातो, विजयो जडसङ्गतः ।।२७३।। तत्र सिंहपुरं नाम, नगरं नगराजितम् ।
वसन्ति स्म परं तत्र, भूयांसो नरकुजराः ।।२७४।। १. क्षयरोग ।। * ज्यं ६.८.९ ।। . रत्नवत्यानुजाभ्यां च, समं चित्रगतिः स्वयम् । व्रतं दमन्धराचार्य-समीपे प्रत्यपद्यत । पादपोपगमं कृत्वा, पर्यन्ते सुसमाहितः । उदपद्यत माहेन्द्रे, शक्रसामानिकः सुरः । २.५-१० ।। . समीपे प्रत्यपद्यत ४ ।। तत्रैव देवौकसि रत्नवत्यपि, तथा कनिष्ठावपि सोदरावुभौ । सर्वे भवन्ति स्म महर्द्धयः सुराः, परस्परं ते दृढबद्धसौहदाः । २, रत्नवत्यपि तत्रैव, तौ कनिष्ठौ च सोदरौ । भवन्ति स्म सुराः सर्वे, प्रीतिमन्तः परस्परम् । ५-१० ।। ३ ञ्जिज्ञ० १ ।। + द्वौ ४ ।। . एष श्लोकः ५-१० प्रतिषु नाऽस्ति ।। ०थ ७.८ ।। * ०त्ये ६.८.९. ।। २. अर्हद्विहारचरणस्पर्शपूते ९ टि० ।। ३. पद्मपक्षे-विविधपर्णः सूर्यानन्दिशोभायमानपेशिकोमल: जलसङ्गरहितः। पद्मविजयपक्षे-विविधवाहनः सज्जनानन्ददायकलक्ष्मीकोशमनोहरविद्वज्जनसमन्वितः ।। ४. वाहन २.१० टि० ।। ५. प्रथित ९ टि० ।। ६. पुरान्यैरजेयं-सर्वोत्तमनगरमित्यर्थः यद्वा नगाः गिरयः, तैः राजितं शोभितमित्यर्थः प्रतिभाति ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org