________________
५६
श्रीतिलकाचार्यविरचितटीकायुतम्
यत्र सत्पात्रदानस्य, बभूवैकातपत्रता । दानान्यन्यानि तद्योरैया-भावात् त्रीणि न सन्ति नु ।।२७५ ।। अभ्रंलिहाग्रगेहान्तश्चरौ सूर्येणलाञ्छनी ।
शङ्के पौरस्त्रियो रत्न- दर्पणानभाजने ।।२७६ ।। हरिणन्दीनृपस्तत्र, शत्रवो यद्भयातुराः ।
विष्वक्तमेव वीक्षन्ते, वियोगिन्य इव प्रियम् ।।२७७।। यत्प्रतापोऽतितीव्रोऽपि शत्रूणामेव तापनः । मान्त्रिकन्यस्तविषवद्-रोगस्यैवापहारकः ।।२७८।। प्रतिपन्थिन एवैके, येन सङ्ग्रामसीमनि । विलक्षत्वमनीयन्त, न तु द्वेधापि मार्गणाः ।।२७९ ।। नामतोऽप्यर्थतोऽप्यस्य, प्रेयसी प्रियदर्शना ।
चक्षुर्मनश्च यलग्नं, मग्नमेवानिवतिं तत् ।।२८० ।। तस्याः कुक्षाववातारीत्, “जीवः चित्रगतेर्दिवः । हिमाद्रेरिव गाङ्गेयः, प्रवाहोऽन्तर्वसुन्धरम् ।।२८१।।
अथ पूर्णेषु दिनेषु, सा सम्पूर्णमनोरथा । तनयं जनयामास, पूर्णेन्दुमिव पूर्णिमा ।। २८२ ।। अपराजित इत्याख्यां पितरौ तस्य चक्रतुः । वर्द्धते स्माथ स शुक्ल- पक्षनक्षत्रनाथवत् ।।२८३।। गृह्णन् कलाः क्रमेणासौ, भवति स्म कलालयः । निःकलः शस्यते वीणा-ध्वनिरेव पुमान्न तु ।।२८४ ।। यौवनस्थोऽभवन्मूर्त्त्या, नारीणां मकरध्वजः ।
उजसा तेजसा चौसीद्, वैरिणां गेरुडध्वजः ।।२८५।।
९. अभयं सुपत्तदाणं ९ टि० ।। २. उचित - कीर्ति - अनुकम्पारूपदानत्रयाभावः ।। * नुः २.७.८ ।। ७ विनिशाकरौ १ टिप्पण्यां, २.५-१० ।। ० ०न० ७-१० ।। ०१० ५.६-१० ।। ०पि० ९ ।। + ०क्ष्य० ८ ।। ३. द्विप्रकारा अपि मार्गणाः बाणा याचकाश्च, बाणपक्षे - येन राज्ञा रणभूमौ एके बाणाः प्रतिपन्थिनः-शत्रून् प्रति विलक्षत्वं लक्ष्यरहितत्वं न त्वनीयन्त, याचकपक्षे-सद्ग्रामसीमायां प्रत्येकपथिकाः याचकाः लक्षसङ्ख्यकमुद्रारहितत्वं न त्वनीयन्त ।। ० त् ६-१० ।। च्युत्वा माहेन्द्रकल्पतः २.५-१० ।। * दिवसेषु १-५.१० च मासेषु ८ ।। ४. नष्टवीर्यः १० टि०, पुरुषपक्षे कलारहितः, विणाध्वनिपक्षे कलरवरहित ।। अयंश्लोकः ९ प्रतौ नास्ति ।। ४ ०सौ वै० ८ ।। ५. विष्णुः संहारकारकत्वात् ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org