________________
सप्तमाध्यायस्य प्रथमः पादः ॥
[नवतितमः] नवतेः पूरणः = नवतितमः । अनेन तमट्प्र० → तम ।
[एकषष्टितमः, एकषष्टः] एकषष्टेः पूरणः = एकषष्टितमः । 'विंशत्यादेर्वा तमट्' (७१।१५६) तमटप्र० → तम । एवम्-एकषष्टः । 'संख्यापूरणे डट्' (७।१।१५५) डटप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ।
[एकसप्ततितमः, एकसप्ततः] एकसप्ततेः पूरणः = एकसप्ततितमः । 'विंशत्यादेर्वा तमट्' (७१।१५६) तमटप्र० → तम । एवम्-एकसप्ततः । 'संख्यापूरणे डट्' (७१।१५५) डटप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ॥छ।
नो मट् ॥ ७।१।१५९ ॥ [नः] न् पञ्चमी ङसि । [मट] मट् प्रथमा सि । [पञ्चमः] पञ्चानां पूरणः = पञ्चमः । अनेन मट्प्र० → म । [पञ्चमी ] पञ्चानां पूरणी = पञ्चमी । अनेन मट्प्र० → म । 'अणजेयेकण्' (२।४।२०) ङी । [सप्तमः ] सप्तानां पूरणः = सप्तमः । अनेन मटप्र० → म । [अष्टमः] अष्टानां पूरणः = अष्टमः । अनेन मटप्र० → म । [नवमः ] नवानां पूरणः = नवमः । अनेन मटप्र० → म । [दशमः ] दशानां पूरणः = दशमः । अनेन मटप्र० → म ।
[विंशः ] विंशतः पूरणः = विंशः । 'संख्यापूरणे डट्' (७।१।१५५) डट्प्र० → अ । 'विंशतेस्तेडिति' (७।४।६७) तिलुक् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् ।
[एकादशः ] एकादशानां पूरणः = एकादशः । 'संख्यापूरणे डट्' (७।१।१५५) डट्प्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ।
[ द्वादशः ] द्वादशानां पूरणः = द्वादशः । 'संख्यापूरणे डट्' (७।१।१५५) डटप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ॥छ।
पित्तिथट् बहु-गण-पूग-सङ्घात् ॥ ७।१।१६० ॥ [पित् ] प् इदनुबन्धो यस्य सः = पित् । प्रथमा सि । । [तिथट् ] तिथट् प्रथमा सि । 'दीर्घङ्याब्-व्यञ्जनात् से:' (१।४।४५) सिलुक् । [ बहुगणपूगसङ्घात् ] बहुश्च गणश्च पूगश्च सङ्घश्च = बहुगणपूगसङ्घम्, तस्मात् ।
[बहुतिथः ] बहु । बहूनां पूरणः = बहुतिथः । 'बहु-गणं भेदे' (१।१।४०) संख्यावत्त्वम्, तस्य फलमनेन तिथट्प्र० → तिथ ।
[बहुतिथी] बहु । 'स्वरादुतो गुणादखरोः' (२।४।३५) ङी । बह्वीनां पूरणी = बहुतिथी । अनेन तिथटप्र० → तिथ । पित् फलं किम् ? 'क्यङ्-मानि-पित्तद्धिते' (३।२।५०) पुंवद्भावः । 'अणजेयेकण्०' (२।४।२०) ङी ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org