________________
७४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
[चत्वारिंशत्तमः, चत्वारिंशः] चत्वारिंशतः पूरणः = चत्वारिंशत्तमः, चत्वारिंशः । प्रथमे अनेन तमट्प्र० → तम । द्वितीये 'संख्यापूरणे डट्' (७१।१५५) डट्प्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । ।
[द्वाचत्वारिंशत्तमः, द्वाचत्वारिंशः] द्वाचत्वारिंशत: पूरणः = द्वाचत्वारिंशत्तमः, द्वाचत्वारिंशः । प्रथमे अनेन तमट्प्र० → तम । द्वितीये 'संख्यापूरणे डट् (७१२१५५) डट्प्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१२११४) अत्लुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ।
[पञ्चाशत्तमः, पञ्चाशः] पञ्चाशतः पूरणः = पञ्चाशत्तमः, पञ्चाशः । प्रथमे अनेन तमप्र० → तम । द्वितीये 'संख्यापूरणे डट्' (७।१।१५५) डटप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।
[अष्टपञ्चाशत्तमः, अष्टपञ्चाशः] अष्टपञ्चाशतः पूरणः = अष्टपञ्चाशत्तमः, अष्टपञ्चाशः । प्रथमे अनेन । तमट्प्र० → तम । द्वितीये 'संख्यापूरणे डट्' (७।१।१५५) डट्प्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
शतादि-मासा-ऽर्द्धमास-संवत्सरात् ॥ ७।१।१५७ ॥ [शतादिमासाऽर्द्धमाससंवत्सरात् ] शतादिश्च मासश्च अर्द्धमासश्च संवत्सरश्च = शतादिमासाऽर्द्धमाससंवत्सरम्, तस्मात् ।
[शततमः ] शतस्य पूरणः = शततमः । अनेन तमप्र० → तम ।
[शततमी] शतस्य पूरणी = शततमी । अनेन तमट्प्र० , तम । 'अणजेयेकण्-न-स्न-टिताम्' (२।४।२०) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् ।
[एकशततमः ] एकशतस्य पूरणः = एकशततमः । अनेन तमट्प्र० → तम । [सहस्रतमः ] सहस्रस्य पूरणः = सहस्रतमः । अनेन तमट्प्र० → तम। [ लक्षतमः ] लक्षस्य पूरणः = लक्षतमः । अनेन तमटप्र० → तम । [मासतमो दिवसः] मासस्य पूरणः = मासतमो दिवसः । अनेन तमट्प० → तम । [अर्द्धमासतमः ] अर्द्धमासस्य पूरणः = अर्द्धमासतमः । अनेन तमट्प्र० → तम । [संवत्सरतमः ] संवत्सरस्य पूरणः = संवत्सरतमः । अनेन तमट्प्र० → तम ॥छ।।
षष्ट्यादेरसंख्यादेः ॥ ७।१।१५८ ॥ [षष्ट्यादेः] षष्टी(ष्टि) आदिर्यस्य सः = षष्ट्यादिः, तस्मात् । [असंख्यादेः] संख्या आदिरवयवो यस्याऽसौ संख्यादिः । न संख्यादिरसंख्यादिस्तस्मात् । [षष्टितमः ] षष्टेः पूरणः = षष्टितमः । अनेन तमट्प्र० → तम । [सप्ततितमः ] सप्ततेः पूरणः = सप्ततितमः । अनेन तमट्प्र० → तम । [अशीतितमः ] अशीतेः पूरणः = अशीतितमः । अनेन तमट्प्र० → तम ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org