________________
सप्तमाध्यायस्य प्रथमः पादः ॥
[डट् ] डट् प्रथमा सि । संख्याया इति वर्तते ।
[एकादशः] एकादशानां पूरणः = एकादशः । अनेन डटप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । एकादशसंख्यापूरण इत्यर्थः ।
[द्वादशः] द्वादशानां पूरणः = द्वादशः । अनेन डटप्र० → अ । 'डित्यन्त्यस्वरादेः' (२२१२११४) अन्त्यस्वरादिलोपः ।
[त्रयोदशः] त्रयोदशानां पूरणः = त्रयोदशः । अनेन डट्प्र० + अ । 'डित्यन्त्यस्वरादेः' (२।१२११४) अन्त्यस्वरादिलोपः ।
[चतुर्दशः] चतुर्दशानां पूरण: = चतुर्दशः । अनेन डट्प्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः।
[एकादशी स्त्री] एकादशानां पूरणी = एकादशी । अनेन डट्प्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ।
विंशत्यादेर्वा तमट् ॥ ७।१।१५६ ॥ [विंशत्यादेः] विंशतिरादिर्यस्य सः = विंशत्यादिः, तस्मात् । [वा] वा प्रथमा सि । [तमट् ] तमट् प्रथमा सि ।
[विंशतितमः, विंशः ] विंशतेः पूरणः = विंशतितमः । अनेन तमट्प्र० → तम । एवम्-विंशः । 'संख्यापूरणे डट्' (७।१।१५५) डटप्र० → अ । 'विशतेस्तेडिति' (७४।६७) तिलुक् । 'डित्यन्त्यस्वरादेः' (२२१२११४) अन्त्यस्वरादिलोपः ।
[विंशतितमी, विंशी स्त्री] विंशतेः पूरणी = विंशतितमी । अनेन तमट्प्र० → तम । 'अणजेयेकण्०' (२।४।२०) ङी । एवम्-विंशी । 'संख्यापूरणे डट्' (७१।१५५) डट्प्र० → अ । 'विंशतेस्तेडिति' (७४/६७) तिलक । 'डित्यन्त्यस्वरादेः' (२२१२११४) अन्त्यस्वरादिलोप: । 'अणजेयेकण्०' (२।४।२०) ङी ।
[एकविंशतितमः, एकविंशः] एकविंशतेः पूरणः = एकविंशतितमः, एकविंशः । प्रथमे अनेन तमट्प्र० → तम । द्वितीये "संख्यापूरणे डट्' (७१२१५५) डट्प्र० → अ । 'विंशतेस्तेडिति' (७।४।६७) तिलुक् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । प्रथमा सि । 'सो रु:' (२।१।७२) स० → र० ।
[द्वाविंशतितमः, द्वाविंशः] द्वाविंशतेः पूरणः = द्वाविंशतितमः, द्वाविंशः । प्रथमे अनेन तमट्प्र० → तम । द्वितीये 'संख्यापूरणे डट्' (७।१।१५५) डटप्र० → अ । 'विंशतेस्तेडिति' (७।४।६७) तिलुक् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[एकान्नत्रिंशत्तमः, एकान्नत्रिंशः ] एकान्नत्रिंशत: पूरणः = एकान्नत्रिंशत्तमः, एकान्नत्रिंशः । प्रथमे अनेन तमट्प्र० → तम । द्वितीये 'संख्यापूरणे डट्' (७।१।१५५) डट्प्र० → अ । 'डित्यन्त्यस्वरादेः' (२१११११४) अत्लुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०। .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org