________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[त्रिंशं सहस्रम् ] योजनानां त्रिंशत् अधिकास्मिन् योजनसहस्रे = त्रिंशं सहस्रम् । अनेन डप्र० + अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लुक् ।
[एकत्रिंशम् ] योजनानां एकत्रिंशत् अधिकास्मिन् योजनशते सहस्र वा = एकत्रिंशम् । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लुक् ।
[चत्वारिंशम् ] योजनानां चत्वारिंशत् अधिकास्मिन् योजनशते सहस्रे वा = चत्वारिंशम् । अनेन डप्र० → अ। 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लुक् ।
[पञ्चाशम् ] योजनानां पञ्चाशत् अधिकास्मिन् योजनशते सहस्रे वा = पञ्चाशम् । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लुक् ।।
[एकादशं शतम्, एकादशं सहस्रम् ] एकादशानि योजनानि अधिकानि अस्मिन् योजनशते सहस्रे वा = एकादशं शतम्, एकादशं सहस्रम् । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ।
[द्वादशम् ] द्वादशानि योजनानि अधिकानि अस्मिन् योजनशते सहस्रे वा = द्वादशम् । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ।
[त्रयोदशं शतम्, सहस्रं वा] त्रयोदशानि योजनानि अधिकानि अस्मिन् योजनशते सहस्र वा = त्रयोदशम् । अनेन .. डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२२१२११४) अन्त्यस्वरादिलोपः ।
योजनादीनामिव शतानामपि सहस्रे भवति
[विशं शतसहस्रम्] विंशतिः शतान्यधिकान्यस्मिन् शतानां सहस्र = विशं शतसहस्रम् । अनेन डप्र० । कोऽर्थः विंशतिशतानि(धि)को लक्ष इत्यर्थः ।
[त्रिंशम् ] त्रिंशत् शतान्यधिकान्यस्मिन् शतानां सहस्रे = त्रिंशम् । अनेन डप्र० । त्रिंशत्शताधिको लक्ष इत्यर्थः ।
[एकादशम् ] एकादशानि शतान्यधिकान्यस्मिन् शतानां सहस्र = एकादशम् । अनेन डप्र० । एकादशशताधिको लक्ष इत्यर्थः ।
एवं सहस्राणामपि शते भवति
[विशं शतसहस्त्रम् ] विंशतिः सहस्राण्यधिकान्यस्मिन्सहस्राणां शते = विशं शतसहस्रम् । अनेन डघ्र० । सहस्राणां शतं शतसहस्रमिति कृत्वा 'षष्ठ्ययत्नाच्छेषे' (३३११७६) इति समासे प्रथमोक्तत्वात् सहस्रस्य पूर्वनिपाते प्राप्ते राजदन्तादिषु पाठात् शतशब्दस्य पूर्वनिपातः ।।
[त्रिंशं शतसहस्रम्] त्रिंशत् सहस्राण्यधिकान्यस्मिन् सहस्राणां शते = त्रिंशं शतसहस्रम् । अनेन डप्र० ।
[एकादशं शतसहस्त्रम् ] एकादशानि सहस्राण्यधिकान्यस्मिन्सहस्राणां शते = एकादशम् । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२२१२११४) अन्त्यस्वरादिलोपः । गोविंशतिरधिका अस्मिन् गोशते । न गोविंशतिशब्दः एकविंशत्यादिवत् संख्याशब्दः ॥छ।
संख्यापूरणे डट् ॥ ७।१।१५५ ॥ [संख्यापूरणे] संख्या 'पूरी(३)चि आप्यायने' (१२६८) पूर् । संख्या पूर्यते येन तत् = संख्यापूरणम् । अनट्प्र० → अन । 'र-घुवर्णान्नो ण.' (१।३।६०) णत्वम्, तस्मिन् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org